पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
190
आयुर्वेदसूत्रे

तस्माद्यदुद्दिश्य प्रवृत्तिः ईश्वरप्रीत्यर्थं पुरुषार्थोपकारिका जगद्रक्षणार्थं तावुभौ स्थावरशरीराण्यभूताम् । जङ्गमशरीराभिवृद्धिं कुरुतः। तावुभौ अभिवर्धेते । स्थावरमूलसारमूलत्वक्सारकन्दसारसारत्वक्सारक्षीरसारपुष्पसारफलसारनिर्यससारक्षीरसारकाः अस्थिसारमज्जासारकाः । काण्डसारकाः । सर्वे ते पञ्चदशसाराः स्थावरशरीराः । तत्तद्व्याधीनां तत्तत्सारभेदा निवर्तका भवेयुरित्यर्थः ।

 ननु सर्वशरीराणि पाञ्चभौतिकानि । शब्दस्पर्शरूपरसगन्धानां आकारादिगुणत्वात् तद्गुणव्यतिरेकेण तेषामवस्थानस्य वक्तुमशक्यत्वात् तद्गुणिनमन्तरेण तद्गुणाभावस्य सत्त्वात् एतत्साराणां व्याधिनिवर्तकत्वं कथं भवेदित्यस्वरसादाह --पार्थिवेति ।

 पार्थिवावयवाधिक्योपलब्धिर्यत्र तत्सारकं पार्थिवगुणम्[१] ॥ ५४ ॥

 आम्लरसस्सुगन्धश्चोभयमपि पृथिवीगुणो भवति । गन्धवत्त्वं पृथिव्या अवच्छेदकत्वम् । आम्लरसवत्त्वं गन्धवत्त्वं च युगपदेवोपलभ्यते । तत्तदङ्गमेव तत्तद्व्याधिनिवर्तकं भवति । तथा हि--पुष्पेषु अधिकगन्धोपलब्धिः । तत्पुष्पसारद्रव्यमिति विज्ञेयम् । ननु अर्कवृक्षस्य क्षीरसारद्रव्यत्वात् तावन्मात्रमेव प्रयोजनं न भवति । तत्पत्रस्यापवननिवर्तकत्वम् । तन्मूलत्वचोऽपि पे पवनदोषप्रकोपानिवर्तकत्वम् । तत्पुष्पाणि क्रिमिरोगनिवर्तकानि । इत्यस्य वृक्षस्य सारत्रयमुपलभ्यते । तत्र मूलसारपत्रसारयोस्सारवत्त्वेनोपलभ्यमानत्वात् तत्सारौ अनुभवैकवेद्यौ भवतः। तत्क्षीरं यावदङ्गेनोपलभ्यते तत्प्रयोजनकार्यस्य क्षीर

  1. नैत A&B कोशयोरस्ति.