पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
188
आयुर्वेदसूत्रे

सर्वपदार्थानां चाक्षुषप्रतीतिविषयत्वादेव सर्वपदार्थानामपि सुखानुभवविषयत्वस्य वक्तुमशक्यत्वादित्यस्वरसादाह--सर्वार्थानामिति ।

 सर्वार्थानां हेतुभूतानां सर्वसुखसाधकम् ॥ ५२ ॥

 सर्वार्थानामिति--

 "समिधो यजति । वसन्तमेवर्तूनामवरुन्धे । तनूनपातं यजति ।" इत्यनुवाकस्य स्वर्गसाधकयागानुष्ठानहेतुभूतत्वात् धर्मविषयप्रतिपादकत्वमित्युक्तम् । फलितार्थस्य आदिरूपेण फलविषयकार्थप्रतिपादकत्वात् पदार्थरूपपुरुषार्थप्रापकद्रव्यत्वात् "पुरुषार्थोऽयमिति फलितपुष्पफलानां हेतुभूतत्वात् कामनाविषयकत्वादेव तृतीयपुरुषार्थस्य हेतुभूतत्वात् सर्वशास्त्राभिज्ञस्य धर्मज्ञस्य हस्तकौशल्यादिज्ञानवतः सर्वदा परोपकारशीलस्य पण्डितस्य विप्रवर्णभेषजस्य आयुर्वेदार्थज्ञानद्वारा चिकित्सकस्य मोक्षप्राप्तिहेतुभूतत्वात् चिकित्सितं मोक्षहेतुर्भवति । तस्य श्रुतिरेव प्रमाणप्रतिपादिका । तथा हि--

"अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥
यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
यत्रौषधीस्समग्मत राजानस्समितामिव ।
विप्रस्स उच्यते भिषग्रक्षोहामीवचातनः" ॥

ऋग्वेदः १०, ९७,सू.
 

 इति श्रुतेर्विद्यमानत्वात् चिकित्सितस्य विप्रस्यैव मोक्षप्राप्तिहेतुभूतार्थत्वात् तच्छाखाग्राणां चतुर्विधपुरुषार्थप्रापकत्वस्य वक्तुं शक्यत्वादित्यर्थः ।