पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
185
चतुर्थप्रश्नः

न श्रूयते नार्थबोधोऽप्यस्ति, हितार्थमियं प्रवृत्तिरस्यास्तीति । अविरळकण्ठत्वमेवात्र प्रयोजकम् । तस्मात्तृणादिकमाहारो भवति ।

 ननु अविरळकण्ठत्वमेव वर्णात्मकशब्दनिष्पत्तौ प्रयोजकम्, तर्हि अविरळकण्ठत्वं खेचराणामप्यस्ति तत्र वर्णात्मकशब्दनिष्पत्तिः कथं न स्यात् ? मनुष्याणामिव अविरळकण्ठत्वस्य खेचरणामपि समानधर्मत्वात् । वर्णात्मकशब्दः कथं नोपलभ्यते तेषां ? यत्किंचिच्छब्दाः श्रूयन्ते । मनुष्याणां तद्विषयकज्ञानाभावेऽपि तत्तज्जातीयानां तदुच्चारितशब्दविषयकज्ञानमस्ति । अन्यथा तेषां प्रवृत्तिरेव न स्यात् । तदन्यथानुपपत्त्या शब्दविषयकज्ञानं कल्प्यते । अविरळकण्ठवज्जातिमज्जन्तूच्चारितशब्दा वर्णात्मकाः, तत्तज्जातिविषयकजन्तूच्चारितशब्दज्ञानप्रवृत्तेरुपलभ्यमानत्वात् मदुच्चारितशब्दविषयकज्ञानानुसरितप्रवृत्तिविषयवत् । तस्मादविरळकण्ठवज्जातिविशिष्टजन्तूनां तत्तज्जातिविधिविहितविषयकज्ञानानुभवानुसरितप्रवृत्तेर्दृष्टत्वात् इत्याशयं मनसि निधायाह-- इडेति ।

 इडापिङ्गलाभ्यां प्रवहति ॥ ४८ ॥

 इडापिङ्गलापवनवज्जातिविशिष्टजन्तूच्चारितशब्दाः वर्णात्मकाः, चन्द्रसूर्यकलाग्रस्ततत्तत्पद्माधिष्ठितवर्णानां निमीलनोन्मीलनसंस्कारजातशब्दात्मकत्वात् । पश्वादीनां न तथा, एकदा उभयस्वरात्मकत्वात् । अत एव तृणादिद्रव्यमपाचितमन्नमत्ति पशुः, उभयानिलानलात्मकत्वात् । खेचराणामपि तथैव । जलचराणामपि अपाचितान्नादनं इडापिङ्गलागतानिलाभ्यां पाचकपित्तं प्रवहति । मनुष्यान्यजातीनां युगभेदेन चन्द्रसूर्यकाभ्यां तत्तद्वर्णात्मकाधिष्ठितानि संप्राप्य खेचरपश्वाद्युच्चारितशब्दा वर्णा

 AYURVEDA
24