पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
184
आयुर्वेदसूत्रे

र्णं गृहीत्वा श्रोत्रप्रदेशं गमयति । तदाऽत्र 'कः' शब्दो जायते । तत्कर्णविवरं गत्वा आविर्भवति । तेषां वर्णानां कण्ठ एव स्थानं भवति । इचुयशादिवर्णा अपि तालुप्रदेशं गत्वा आविर्भवन्ति । लृतुलसा अपि दन्तदेशं गत्वा आविर्भवन्तीति परंपरया तत्तत्सजातीया अप्याविर्भूता इत्यर्थः । एवं सूर्यकला सहायं कृत्वा तत्तत्पद्मं विकासयन्ती वर्णान् जनयति । एवं चन्द्रकला च सूर्यकला च तत्तत्पद्मानां निमीलनोन्मीलनं च करोति । यावदर्थं जानाति तदर्थमिच्छति तावदर्थवदुच्चारितशब्दो विषयो भवतीत्येवं मनसि निधाय ताल्वोष्ठपुटव्यापारं करोति । तेन वायुरुत्पन्नस्सन् तज्जातीयसिरागतपवनं सम्प्राप्य तद्वाञ्छितार्थप्रतिपादकवर्णसमूहं पदमुद्दिश्य ताल्वोष्ठपुटव्यापारसामग्र्या च शब्द उत्पद्यत एवेत्यर्थः ।

 ननु भेरीदण्डसंयोगेन यावत्पवनानुगतशब्दश्श्रूयते । तत्र वायोस्सिरादिव्यापारं विना स वायुश्शब्दबोधको भवति । तद्वदेवात्रापि स्यादिति चेत् न । तस्यापि शरीरमस्ति चर्मपुटमावृत्य आकाशाभ्यन्तरस्सन् भेरीशरीरमिति व्यपदिश्यते । तत्र सिरागतपवनब्यापारं विना शब्दोत्पत्तिः कथं स्यात् । तद्वदेव वर्णात्मकपदं श्रूयते । तत्र भेरीशब्दो जात इति कथमनुभूयत इति तादृशार्थध्वन्यात्मकशब्दमात्रमेव श्रूयते । स वर्णात्मकः चैतन्याधिष्ठितसिरादिव्यापारं विना तस्य असंभावितत्वात् । ध्वन्यात्मकशब्दत्वात् अस्यास्सामग्र्या न तत्र तात्पर्यम् ।

 ननु वर्णानां चैतन्याधिष्ठितश्रुतिरवत्वात् ताल्वोष्ठपुटव्यापारस्य समानत्वात् वर्णात्मकशब्दः कथं स स्यादिति चेत् मनुष्याणामिव पश्वादीनां अविरळकण्ठाभावत्वेन वर्णात्मकशब्दो