पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
183
चतुर्थप्रश्नः

 तस्माच्चिरायुर्भवति[१] ॥ ४६ ॥

 ननु एतत्सर्वं न संसृज्य घटते । तल्वोष्ठपुटव्यापारसामग्र्यां सत्यां वाञ्छितार्थः श्रोत्रप्रदेशगतशब्दजनितवाक्यश्रवणेन तत्पदार्थः वाक्यविषयो भवति । न तत्पद्माधिष्ठितवर्णसिराभिरेव ज्ञाप्यते, गौरवात् । "यद्धि मनसा ध्यायति तद्वाचा वदति, तत्कर्मणा करोति" इति श्रुतिरेवात्र प्रमाज्ञापिका । किंच ‘अकुहविसर्जनीयानां कण्ठः ।इचुयशानां तालु । उपूपध्मानीयानामोष्ठौ । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः" इत्यादिवार्तिकवचनानां विद्यमानत्वात् तत्तत्पद्माधिष्ठितवर्णान् श्रोत्रप्रदेशं प्रापयितुं तत्तत्सिराणां तत्सामाग्र्यभावादित्यस्वरसादाह--चन्द्रेति ।

 चन्द्रकलायतमरुत्प्रचोदितपद्मं मुकुलीभवति । सूर्यकलागतपवनाद्विकसति ॥ ४७ ॥

 चन्द्रकला ताल्वोष्ठपुटव्यापारसामग्र्यां सत्यां चन्द्रस्वरादागतपवनेन मुकुलीभवति । एतद्वर्णोत्पादकताल्वोष्ठपुटव्यापारसामग्रीजन्यपवनात्सरन्ध्रकाभ्यन्तरधरसिरामार्गं प्रविश्य तत्तत्पद्माधिष्ठितवर्णान्गृहीतुं तत्पद्ममुकुलीभाव एव कारणं भवतीति तत्सर्वं मनसि निधाय तत्तद्व्याधिनिदानं पूर्वस्वराद्विकृतस्वराः, तत्पद्माधिष्ठितरोगविज्ञानहेतुत्वात् इत्यत्र प्रमाणं वर्णोच्चारणश्रवणज्ञानानुभव एव । तद्ज्ञानं कीदृशमित्युक्ते अनुभवं पृच्छेत् न तद्बोधयितुं शक्यम् । क्लिष्टोच्चारणं यदा क्रियते तस्य बीजपार्श्वस्थानत्वात् तद्व्यापारजनकपवनस्तत्सिरामार्गे सञ्चरन् कव

  1. स्थिरायुर्भवेत्--B.