पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
182
आयुर्वेदसूत्रे

साकं हलादयः कार्यकारका भवन्ति । पित्तदोषाभिमानकुक्षिस्थिततत्तत्पद्मस्थितवर्गपञ्चकवर्णानां तत्तत्सिरागतपवनः स्वाभिमानभूताज्यवर्णान् यथाविधि शास्त्रप्रतिपादितार्थान् बोधयितुं स्वरसहितहलादीन् सिरास्यदोषगतिजातशब्दः कर्णयोः प्रपद्यत इति । पित्तप्रदेशपद्मस्थितवर्णान् पवन एव प्रापयतीत्याह--तिक्तेति ।

 तिक्तरसाभिवर्धितं मेदोधातुस्थितदशदलपद्मं कटिप्रदेशगतम् । सहस्रसिरादागतामृतं तस्य तत्पोषकम् । तिक्तरसाधिककफप्रदेशामृतं तत्र दोषजन्यम् । पिङ्गलामार्गादागतपवननिरोधनं सुभेषजं सुपोषकम् ॥ ४४ ॥

 तिक्तरसद्रव्यादनसंस्कारजन्यगुणाः तत्तद्विरुद्धादनरसजन्यरोगवशात् स्वस्थोच्चारणाधीनवर्णात्मकपदसमूहवाक्यश्रवणं तत्तत्पद्माधिष्ठितरोगविज्ञानहेतुकं भवति । ताल्वोष्ठव्यापाराधीनवर्णोच्चारणहेतुभूततत्तत्पद्मस्थितरोगजनकसामग्र्या यावद्धीनवर्णोच्चारणजन्यवर्णाकारं विज्ञाय कफविकारहेतुकस्वाद्वम्लरसवद्द्रव्याधिक्यादनजन्यकफरोगस्य तन्निवर्तकामृतं पिङ्गलामार्गादागतपवननिरोधनजन्यामृतं सुभेषजं भवतीत्यर्थः ।

 हीनवर्णोच्चारणहेतुकतद्रोगस्य तन्निवर्तकद्रव्याभावेऽपि बहिः पवनरेचनं तत्पूरणं च निवर्तकं भवतीत्याह--बहिरिति ।

 बहिः पवनं रेचयेत् तमेव पूरयेत्[१] ॥ ४५ ॥

 अस्य फलमाह । तस्मादिति--


  1. तत्र सेचयेत्--A. तत्र सेवयेत्--B.