पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
181
चतुर्थप्रश्नः

निवर्तकस्वादुरसवद्द्रव्यत्वात् पादपद्माधारकजङ्घापद्माधिष्ठिताज्वर्णानां आधारो भूत्वा स एव सुगतिकारकस्सन् तत्तत्पद्मानि तत्तदधिष्ठितवर्णानि च सहस्रारपद्मगतामृतं सहस्रसिराभ्य आहृत्य तत्तद्वर्णाधारकपद्ममाप्लाव्य तत्तद्वर्णानुभवज्ञानद्वारा ऐकारज्ञापकपवनः तस्य पोषको भवति । तिक्तेरसाभिवर्धितपित्तदोषः नाभेरधस्स्थितदशदळपद्मं स्वाधारं कृत्वा पवनहृतामृतं स्वाधिष्ठानभूतं दशदळपद्ममाप्लाव्य हलादिवर्णानां श्रोत्रप्रदेशं प्रापयन् तिक्तरसः मांसमेदोधातुपोषको भवतीत्यर्थः ।

 ननु अचस्सप्त स्वराः सन्तः सरन्ध्रकाभ्यन्तरधरसिरामार्गेभ्यः श्रोत्रप्रदेशं प्रसरन्तः स्वराश्श्रूयन्ते । पादपद्ममारभ्य बीजपार्श्वपद्मपर्यन्तं पवनस्थानमिति । अत एव चलनात्मकं कर्म कुरुते । जङ्घाभ्यां पद्भ्यां धर्मोऽस्मीति शरीरापगमागमौ भवतः । तदेवं चलनात्मकगतागतभेदं पवन एव कुरुते । तेनैव स प्रचरति । बीजपार्श्वपद्ममारभ्य हस्तपद्मपर्यन्तं कचटतपवर्गपञ्चकस्य तत्तत्पद्माधिष्ठितत्वात् । सरन्ध्रकाभ्यन्तरगतपवनस्तु स्वाभिमानपद्मेषु स्थित्वा अचां वर्णानां तत्तद्वर्णसन्ध्युच्चारणार्थं सुपदप्रयोगोच्चारणार्थं तत्पदसमूहवाक्योच्चारणार्थं स्वाभिप्रेतार्थबोधनार्थं पदवाक्यप्रयोगव्यतिरेकेण स्वस्यापरस्य बोधयितुमशक्यत्वात् । तस्मादज्भिः साकं हलादयः स्वाभिप्रेतार्थं परेषां विबोधयितुं शक्नुवन्ति । अत एव शब्दशास्त्रे वैयाकरणैः प्रथमत एव प्रतिपादितं--

 "वृद्धिरादैच्, अदेङ् गुणः, इको गुणवृद्धी" एतत्सूत्रत्रयस्यार्थे महाभाष्ये सर्वं प्रपञ्चितम् । तत्र यत्प्रतिपादितार्थं अज्भिः