पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
168
आयुर्वेदसूत्रे

स्पन्दनारुचिपाण्डुता पित्तपाण्डुशोभलक्षणम् । पादजानुजङ्घ्रोरुकटिपृष्ठबीजपार्श्वातिव्यथातिसाररूक्षतातिशीतसर्वाङ्गस्पन्दनं पवनशोभपाण्डुलक्षणम् ॥ २९ ॥

 वातपाण्डुलक्षणान्युच्यन्ते-- पादेति।

 अवर्णादिभूतपादपद्मस्य चतुस्त्रिंशत्सिरावृतालवालं तदामपित्तातिसारं शिरःकमलादागतामृतनिरोधनादामपित्तातिसारप्रदर्शनात् शोभपाण्डुविसर्पामयचिह्नज्ञापकं भवति । विरसादनविकारवित्पवनो रसासृग्धातुगतश्चेत् पाण्डुरूपविकारं भजते । स एव पवनो मांसधातुगतश्चेत् श्वयथुर्भवति । स एव धातुगतश्चेत् विसर्पामयो जायते । यस्य पादे विकारो जायते तत्प्रदेशस्थावर्णोच्चारणं स्पष्टोच्चारणवदश्राव्यम् । तत्प्रदेशे श्वयथुदर्शनं वा पाण्डुशोभविसर्पामया वा ज्ञातव्याः ।

 अवर्णस्थानभूतजानुपद्माधारकं चतुस्त्रिंशत्सिरावृतजानुपद्मालवालं श्वासोच्छासाभ्यां शिरःकमलस्थामृतोपहरणमार्गं रसविरसजन्यामपित्तसारसंस्कारं तत्सिरामार्गगतपवनविवृत्या पूर्ववत्पाण्डुशोभविसर्पामयाः । रसासृग्धातुदूषणात्पाण्डुत्वम् । मांसधातुदूषणाच्छ्व्यथुदर्शनम् । मेदोधातुदूषणाद्विसर्परोगाः प्रादुर्भवन्तीत्यर्थः ।

 ये तद्बर्णाधारतत्तद्देशीयपद्मावृतसिरामार्गगतपवनप्रचारणाभावकार्यजनकपाण्डुशोभविसर्पामयाः पूर्ववद्धातून्दूषयन्ति अचां वर्णानामुच्चारणसकलसामग्र्यां सत्यां अश्राव्यत्वं, ते पवनप्रकोपजाता इति ज्ञातुं शक्यत्वादेव पित्तप्रदेशकमलाधार