पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
157
चतुर्थप्रश्नः

 शनैश्शनैरेव रेचयेत् ॥ १९ ॥

 सर्वजन्तूनामप्युदरं जलाधारकमिति, तेजश्च बलं च आयुश्चेत्येतान्यनलाधारकाणीति मत्वा शनैश्शनैरेव रेचयेत् । शरीरान्तस्स्थितसिराजाताब्कार्यमुदरामयं, तन्निवृत्तिकार्ये अन्तस्स्थितजलविरेचनकार्यं कुर्वीत । तत्र निदानवचनम्--

"सर्वेषु तन्द्रा सदनं मठसङ्गोऽल्पवह्निता ।
दाहः श्श्वयथुराध्मानमन्ते सलिलसम्भवः ॥
सर्वे त्वतोयमरुणमशोफं नातिभारिकम् ।
गवाक्षितं सिराजालैः सदा गुडगुडायते ।
नाभिमन्त्रं च विष्ठभ्य वेगं कृत्वा प्रणश्यति ॥"[१]

 एतद्वचनानुसारेण सिराविकारजन्यजलनिवर्तकं यत्तद्विरेचनकार्यं, तेनोदरामयो निवर्तते सिराविकारजन्योदरामयहेतुकजलद्रव्यत्वात्, तद्विरेचनयोग्यार्थः निवर्तक इत्यर्थः ।

 ननु गजाश्वादीनामपि उदरामयः प्राचुर्येण द्योतते । स्वादुरसवद्द्रव्यं तत्र भेषजमिति ते पदार्थास्तत्र नोपयुक्ताः तेषामपि योग्यद्रव्याणां विवक्षितत्वात् । तदुदरामयानां आध्माननिदानस्य सर्वजनसाधारणत्वात् । यावद्व्याध्युपयुक्तभोगयोग्यद्रव्याणि पवनप्रकोपनिवर्तकानि । तत्तज्जातिविहितपदार्थानां स्वादुरसवद्द्रव्यत्वं यावत्पदार्थेषु भासते । तत्रायं नियमः-- स्वादुरसवद्द्रव्यत्वस्य सर्वेषामपि सम्भावितत्वात् आदाननिदानादेः सर्वजन्तूनां समानद्रव्यत्वात् स्वदुरसवद्द्रव्यं तत्र भेषजमिति आयुर्वेदप्रतिपादितार्थः ॥ सर्वजन्तूनां धातुपोषकत्वं च स

  1. अष्टाङ्ग. निदान. XII. 8-10.