पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
156
आयुर्वेदसूत्रे

ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनीः ।
प्राणाग्न्यपानान्सन्दूष्य कुर्युस्त्वङ्मांससन्धिगाः ॥
आष्माप्य कुक्षिमुदरमष्टधा तच्च भिद्यते[१]

 रसविरसादनजाताजीर्णेन जातरोगः तन्निवर्तकाभावसामग्र्या आमादिवृद्धिं जनयति । तेन मन्दानिलोऽपि भवति । शरीरस्य पञ्चभूतात्मकत्वेन स्वादुरसादनात्पवनप्रकोपो निवर्तते । तद्विरसद्रव्यादनात्पवनप्रकोपो दृश्यते । तस्मादुद्भूताभिवृद्धितया सरन्ध्रकाभ्यन्तरधरसिराणामपि परिपीडनात् पवनसञ्चाराभावत्वेन आपस्स्रवन्ति आ कुक्षिपरिपूरणात् । रसासृङ्मांससधातुषु सिरा दृश्यते । तस्मात्कुक्षिजलं तत्तु धातुवत् न जीर्यते । स उदरामयो भवति । स एवाष्टधा भिद्यते इत्यर्थः ।

 ननु उद्भूतरसविरसद्रव्यं पवनप्रकोपहेतुकं उद्भूतग्रहणस्वादुरसविरसद्रव्यत्वात् । कथं तर्हि फलरसविरसद्रव्यजन्यरोगस्य स्वादुरसवद्द्रव्यं न भेषजानिवृत्तनिवर्तकं पवनप्रकोपाग्रवर्तकद्रव्यत्वात् यन्नैवं तन्नैवं यथा घटः। आमनिवृत्तिद्वारा उदरामयोऽपि न जायते । तत्प्रागभावपरिपालनकार्यस्य तदुपयोगिकत्वात् इत्याह--स्वाद्विति ।

 स्वादुरसवद्विरेचनद्रव्यं तत्र भेषजम् ॥ १८ ॥

 उदरामयनिवर्तकद्रव्याणि क्वाथकल्कावलेहभेषजद्रव्याणीत्यर्थः । तत्र वातकृतोदरामये ते पदार्थाः । सर्वेषामपि सम्भावितत्वात् इति तन्निवर्तकस्य रेचनोपयोगिद्रव्यत्वेन तत्तद्द्व्ययोग्यकालं विज्ञाय चिकित्सा कार्येति व्यपदिशति-- शनैरिति ।


  1. अष्टाङ्ग.निदान. XII 1-3.