पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
153
चतुर्थप्रश्नः

न्दानुभवहेतुकपदार्थज्ञानेन इच्छा जायते । तच्चलनात्मकं कर्म प्रवृत्तिः । तत्स्वत्वज्ञापितात्तदितर ईश्वरः मायाव्यतिरिक्तः निष्कळङ्कः निर्गुणः निरवयवः नित्यानन्दात्मकः योगिनामप्यगोचरः । तावुभौ पतत्रिणौ शरीरवृक्षं परित्यज्य स्थितावित्यर्थः । क्लेशकर्मविपाकाशयो जीवः । क्लिश्यन्त इति क्लेशाः अविद्यादयः । वक्ष्यमाणानि अविहितानि निषिद्धद्रव्याणि नश्वररूपाणि कर्माणि । वक्ष्यमाणानि-- विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुस्सुखदुःखभोगात्मकानि फलानि । तानि तामसगुणहेतुकलवणकटुरसद्रव्यादनहेतुकजातानि । तेषामाशयो निदानस्थानात्मकः मायाशबलितो जीवः । साशयस्थितजङ्घापद्मस्थितसहस्रसिराभिः आत्मेच्छायाः प्रयत्नज्ञानात् गतागतप्रेरकपवनवशात्

 जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि । विशि राजा प्रतिष्ठितः । प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् । प्रतिप्राणेषु प्रतितिष्ठामि पृष्ठे । प्रतिद्यावापृथिव्योः प्रतितिष्ठामि यज्ञे[१]"

 इति श्रुतिप्रतिपादितशरीरेषु विशन् कर्म करोमीत्यर्थः ॥

 ननु शरीराङ्गगतचेष्टादिकं आत्माधीनं, तेन परमात्मा सिद्ध्यति । परमात्मनः इच्छाविषयकज्ञानकार्यं आत्मेच्छाविषयकज्ञानपूर्वकं, शुद्धचैतन्यप्रेरितकर्मकार्यहेतुभूतत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानविधया परमात्मसिद्धिः ।

 स्रोतोमार्गस्थितसिराप्रेरितसर्ववर्णज्ञापकाधारदेशस्थितकरप्रभावाष्टादशदळपद्मावलम्बकताल्वोष्ठपुटव्यापारादिकं सकर्तृकं कार्यत्वात् घटवत् इत्यनुमानेन आत्मसिद्धिः । तदर्थं शरीराङ्गचेष्टां व्याचष्टे-- स्रोत इति ।

 AYURVEDA.
20
 


  1. तै. ब्रा. अष्टक II. प्रपा 6, 5, 25.