पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
152
आयुर्वेदसूत्रे

 जङ्घापद्मपोषकामृतप्रवाहपरिणामयोगवशाच्चलति ॥ १३ ॥

 जङ्घाप्रवेशस्थितपञ्चदशदळपद्मं येन वशादागतामृतप्रवाहात् तत्पद्मं पोषयत् तच्चलनात्मककर्मोपकारकं भवतीत्यर्थः ।

 ननु ईश्वरसद्भावे किं मानं ? स्वहितफलप्रापकविषये चलनात्मककर्मप्रवृत्तिः । अहितफलनिवृत्तिविषये चलनात्मककर्मप्रवृत्तिश्च । तदुभयमपि शुद्धरसाहारजन्यं धातुदार्ढ्यकरणप्रयोजकम् । सकलकर्मविषयकचलनात्मकक्रिया पवनेन सिरागतामृतप्रवाहप्रेरणावशात् चलति । पूर्वोक्तरीत्या ईश्वरेण विनापि शरीराङ्गचलनक्रियां कर्तुं कर्मकरणेनैव सिद्धत्वात्--

 "कमणैव हि संसिद्धिमास्थिता जनकादयः" इति । तस्मादीश्वरो न सिद्ध्यतीत्यस्वरसादाह-- लवणेति ।

 लवणरसजन्यपवनयोगरसप्रवर्तकक्लेशकर्मविपाकाशयापरामृष्टः पुरुषविशेष ईश्वरः[१] ॥ १४ ॥

 लवणरसजन्यः तामसगुणविशिष्ट ईश्वर एकः शरीरे स्थितः । स ईश्वरः नित्योऽपि तामसगुणस्य अनित्यत्वात् तद्गुणविशिष्टत्वात् तज्जन्य इत्युक्तः । पवनजनकस्वादुरसवद्द्रव्यादनजन्यसात्त्विकगुणविशिष्ट ईश्वरः तद्गुणविशिष्टे शरीरे स्थितः अजः । क्लेशगुणविपाकाशय अजः । तस्मादपरामृष्टः आमयरहितः ईश्वरः पुरुषविशेषः । तावुभावपि शरीरस्थितौ । तयोरेकः अजरस्सर्वस्वतन्त्रोपि सर्वशरीरं व्याप्य सर्वकर्मोपकारकः । स्वान

  1. विशेषः जीवः A & B.