पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
151
चतुर्थप्रश्नः

 ननु शरीरावच्छेदकं चेष्टाश्रयमित्युक्तम् । तथा सति सर्वदा चेष्टाकरणप्रसङ्गात्, ईश्वरस्य सर्वशरीराङ्गव्यापकत्वेन सिद्धत्वात् तस्य चेष्टाकरणमेव प्रयोजकं भवतीत्यस्वरसादाह-- हिताहितेति ।

 हितप्राप्त्यर्थं अहितपरिहारार्थमेव स्पन्दनकरणं ईश्वरप्रेरितम् । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां प्राप्यकारित्वनियमत्वात् । ईश्वरः यदर्थकर्मकरणमिच्छति तावदर्थानुभवज्ञानेन अनन्दानुभववान् भवतीत्यर्थः ।

 ननु परिशुद्धरसादनं यस्यास्ति तस्येन्द्रियादयः सुप्रसन्ना भवन्ति । रसवद्द्रव्यादनं चेष्टाऽश्रयहेतुकं शरीराङ्गस्य रसादनपोषितत्वात् । तस्माच्छुद्धरसवद्द्रव्यादनस्य चलनात्मकशरीरस्य च हेतुहेतुमद्भावयोरेव वक्तुं शक्यत्वात् इत्यस्वरसादाह-- शुद्वेति ।

 शुद्धरसाहारजन्यधातुप्रेरितसिरागतपवनवशाच्चलनात्मकम् ॥ १२ ॥

तत्र वचनं--

आहारं पचति शिखी दोषानाहारवर्जितः पचति ।
दोषक्षये च धातून्पचति च धातुक्षयेऽपि च प्राणान् ॥

 एतद्वचनानुसारेण शरीरदार्ढ्यकरणं अङ्गप्रचलनं च रसादनादेव भवतीत्यर्थः ॥

 ननु शुद्धरसादनं धातुपोषणमात्रं करोति । तेन रोगाभावात् पञ्चेन्द्रियाण्यपि स्वविषयविषयकविषयज्ञानस्य शुद्धरसवद्द्रव्यादनेन लाभात् तद्वति तत्प्रकारकत्वमपि गृह्णन्ति । तेन चलनात्मककर्मोपकारकत्वं न स्यादित्यस्वरसादाह-- जङ्घेति ।