पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
149
चतुर्थप्रश्नः

 पञ्चदशकमलं जङ्घादेशगतं सहस्रसिराधारकं पञ्चाशन्मर्मगतम् ॥ ९ ॥

 गतागतसंस्कारोपकारकपवनयोगस्समाधिः । कुण्डल्याधारभूतपञ्चदशकमलं जङ्घाप्रदेशस्थं सहस्रसिरावृतं सत् मर्मस्थानानुसन्धानकारकं जङ्घाभ्यां चलनोपकारकमिति वक्तुं शक्यत्वादिति । तस्मादेते जङ्गमा इति प्रदर्शिताः । जङ्घापद्मप्रदेशस्थपञ्चदशदलपद्मवच्छरीराङ्गं चलनात्मककर्मोपकारकं, जङ्गमशरीराङ्गकत्वात् यन्नैवं तन्नैवं यथा स्थाणुः । तत्पञ्चदशपद्मकं पादसहस्रावलम्बकसहस्रसिरावृतं द्विशतपञ्चाशत्सिरावृतैकाङ्गत्वात्, यन्नैवं तन्नैवं यथा स्थाणुशरीराङ्गम् । पञ्चाशन्मर्मगतं पञ्चाशद्वर्णात्मकं तत्तद्वर्णबोधकाभिनयचलनात्मकाङ्गाधारभूतत्वात्, यन्नैवं तन्नैवं यथा घटः ॥

 गतागतसंस्कारोपकारकपवनयोगस्समाधिः ॥

 सामधिरिति-- समाधिश्चलनकर्मविशिष्टकर्मा, पवनाश्रितज्ञानेच्छाप्रयत्नजन्यहेतुज्ञापकद्रव्याश्रितत्वात्, यथा घट इति ।

 ताल्वोष्ठपुटव्यापारजातशब्दानाह-- हस्तेति । [१]हस्तविन्यासानुसृताज्ञाबोधकः तच्छब्दज्ञापकाभिनयकर्मविशिष्टविषयकज्ञानाश्रितत्वात् । एवमनुमानप्रमाणेन आयुर्वेदसूत्रार्थव्याख्यानं कृतम् ॥

 ननु चैतन्याधिष्ठितं शरीरं चेष्टाश्रयं चेष्टाश्रयजन्यफलानुभवानन्दात्मकत्वात्, यन्नैवं तन्नैवं चैतन्यरहितशरीरवत् । जीवच्छरीरं सात्मकं, प्राणादिमत्त्वात् । यज्जीवच्छरीरं न भवति

  1. A & B कोशेषु हस्तादिसूत्रं नदृश्यते.