पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
146
आयुर्वेदसूत्रे

षयकविषयेतरज्ञानंप्रति हेतुरेव समाधिरित्यर्थः । ननु परमात्मनो विभुत्वेन मनस आत्मना साकं धृढतरसंस्कारस्य स्वत एव सिद्धत्वादित्यस्वरसादाह-- संवेग इति ।

 संवेगः क्रियाहेतुर्दृढतरसंस्कारः ॥ ३ ॥

 संवेगो नाम कारणम् । तस्य लक्षणं क्रियाविशेषमात्रवैलक्षण्यं तदवच्छेदकम् । स एव क्रियाहेतुर्भवति दृढतरसंस्कारोऽपि भवतीत्यर्थः । तरशब्देन सुतरां हेतुरिति भावः ।

 ननु एतत्समाधानमनुपपन्नं, तथा च श्रुतिः--

 "अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति । अन्नममृतं तमु जीवातुमाहुः" इति श्रुतेः विद्यमानत्वात् । एतत्प्रमाणप्रतिपादितसमाधेरदृष्टत्वादित्यस्वरसादाह-- गतेति ।

 गतागतोपायभेदवतां समाधिफलं चासन्नम् ॥

 अत्र गतागतविषयकज्ञानमात्रं न विवक्षितम् । अन्नादनाभावे सति धातुपोषकशरीरपुष्टिर्यस्यास्ति तस्येदं विवक्षितम् । ते तु परमयोगिनो भवन्ति । तेषामवच्छेदकं गतागतोपायभेदज्ञानवत्त्वम् । गतागतरूपश्वासोछ्वासाभ्यां शरीरदार्ढ्योपायं, भिद्यत इति भेदः अन्नादनाज्जातजनकयोगजन्यभेद इत्यर्थः । समाधेः फलं शरीरदार्ढ्यकरणम् । शरीरेण सर्वकर्माधिकारी भवति । शरीरं सत्कर्मादिमोक्षहेतुकं भवतीति भावः ।

 ननु श्वासोछ्वासानिलयोर्गतागतत्वस्य शरीरिणां स्वत एव सिद्धत्वात् स्वतस्सिद्धकर्मणः विशेषविधिं विना कथं शरीरदार्ढ्यकारकत्वं कथं वा मोक्षोपयोगिकत्वं भवतीत्याशङ्क्याह--मृद्विति ।