पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आयुर्वेदे चतुर्थप्रश्नः


 ननु रसादीनां धातुपोषकत्वं वक्तुमशक्यम् कुण्डलिनीस्थितश्वासोछ्वासपवनस्यैव अमृतप्रदत्वेन प्रतिपादितत्वात् । रसादीनां धातुपोषकत्वं कथं स्यादित्यस्वरसादाह-- गतेति ।

 गतागतामृतवशादागतसमाधिक्रियया योगसान्निध्यम्[१] ॥ १ ॥

 कुण्डलिन्याः अनिलानलचक्रात्मकत्वादेव श्वासपवनस्य अनिलचक्रात्मकस्य प्रथमप्रयाणगतस्य ऊष्मरूपत्वादेव शिरःकमलस्थामृतमाहर्तुं शक्यत्वादित्यर्थः । तस्मादमृतवशाद्धातुपोषकत्वं समाधिहेतुकमिति कृत्वा तत्क्रियया योगानां सान्निध्यं भवतीत्यर्थः । तस्माद्योगस्य धातुपोषकत्वं परम्परया प्रतिपादितमिति भावः ।

 धातूनां पोषणंप्रति रसादि हेतुर्भवतीति रसादीनां हेतुत्वप्रतिपादनं रसवद्द्रव्यादनेन भाव्यम्, तदन्नाद्यदनस्य अन्वयव्यतिरेकाभ्यां धातुपोषणंप्रति हेतुत्वप्रतिपादनात् । समाधयो धातुपोषका इति कथं प्रतिपद्यत इत्यस्वरसादाह-- तीव्रेति ।

 तीव्रसंयोगाख्यामासन्नः समाधिः[२] ॥ २ ॥

 मनस आत्मनिदिध्यासनस्य तीव्रसंयोगत्वं नाम इतरार्थज्ञानज्ञापकसामग्र्यसमर्थितत्वे सति आत्मसमवेतत्वम् । तेषामात्मवि

 AYURVEDA
19
 


  1. गतागतानिलवशा-- A & B.
  2. योग. I. 1, 21