पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
143
तृतीयप्रश्नः

आपादमस्तकं सञ्चारितव्यानपवनोऽपि पोषको भवति । अवर्णोत्पादकपादपद्मं शाखावेलारूपम् । तावत्पर्यन्तं सहस्रारपद्मगतामृतं रक्षकं भवतीत्याह-- तदिति ।

 तत्पादपद्माधारे सरित्प्रवहति ॥ ९५ ॥

 पादपद्मपर्यन्तं सिरासन्धानमनुसृत्य अमृतप्रवाहो भवतीत्यर्थः ।

 ननु कुण्डलिनीगतश्वासोच्छ्वासमहिम्ना आगतामृतस्य आधारपद्मालवालपर्यन्तं प्रवाहकरणस्योचितत्वात् कथं ह्याधारपद्मपर्यन्तं प्रवाहकरणं नोपपद्यत इत्यत आह-- मांसेति ।

 मांसानुसृतसिरामार्गगतपवनेन कलाः पूरयन् अमृतं सेचयेत् ॥ ९६ ॥

 तन्मार्गमनुसृत्य इडापवनेन पादपद्मपर्यन्तं सेचयेदित्यर्थः । तेन तदधिष्ठानस्थितवर्णदेवताः सन्तोष्य पालयेदित्यर्थः । ननु रसासृग्धातुपवनेन अमृतपोषकत्वं तद्धातूनामेवेति वक्तव्यम् । तदितररक्तधातोरमृतपोषकत्वाभावेन जीवनं नोपपद्यत इत्यस्वरसादाह-- मांसेति ।

 मांसानुसृतसिराभावास्सन्ति[१] ॥ ९७ ॥

 इडामार्गगतश्वासपवनः सहस्रारकमलस्थामृतमाहरन् मांसधातुं सन्तर्प्य शरीरपोषको भवतीत्यर्थः । रसासृग्धातुपवनस्य शरीराङ्गविभागकार्यकारकनियमस्थापकत्वात् मांसधातुगतसिराणां अप्रयोजकत्वेन रक्तधातुपोषकत्वं पवनस्य कथं सङ्गच्छते । पवनसिरासृग्धातुमात्रप्रदानं चरन् तत्पोषकत्वमात्रस्यैवोचितत्वात् न रक्तधातुपोषको भवतीत्यस्वरसादाह-- द्वीति ।


  1. A.B. कोशेषु एतन्न दृश्यते.