पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
142
आयुर्वेदसूत्रे

तत्पोषकत्वं वक्तुं शक्यते, तस्य कुण्डल्याधारमात्रोपयोगिकत्वात्, सर्वशरीरव्यापकत्वाभावेन तत्पोषकत्वमपि न रोचत इत्यस्वरसादाह-- सिरेति ।

 सिरापथगतपवनश्शिरःकमलस्थामृतमाहरान्सिञ्चति ॥ ९२ ॥

 सिरामार्गेषु सर्वदा सञ्चारभूः पवनो व्यानपवनस्य मूलाधारस्थितत्वेन तत्र स्थितामृतमाहरन् शरीरशाखिबीजोत्पादकपादपद्ममूले पूर्वरसासृग्धातुषु चरन् पवनः प्रभवतीत्यर्थः ।

 ननु सकलामृतात्मकानलानिलचक्रात्मककुण्डल्युद्भवप्रकाशमानप्रथमप्रयाणाधिगतश्वासानिलोष्मणो जातामृतमाहृत्य उच्छ्वासानिलेन तत्सर्वं सङ्ग्राह्य धातुसन्तर्पणं करोतीति यत्तदेव शरीरदार्ढ्योपकारकं भवतीति व्यानवायुना पादपद्मपूरकेन किं फलं भवेदित्यस्वरसादाह-- शरीरेति ।

 शरीराङ्कुरशाखानामादिभूतं [१]तथा ॥ ९३ ॥

 पञ्चशाखं शरीरमिति शरीरमेव अङ्कुरं पञ्चशाखान्वितं मूलाधिष्ठानपद्माधारभूतम् । तस्य शाखा एव अवयवा इत्यर्थः ।

 ननु मूलाधारपद्ममेव शरीराङ्कुरस्य आलवालमित्युक्तम् । तत् तदङ्गस्थितवर्णानां तत्तदधिष्ठानदैवतानां अमृतपोषकत्वभावनचलनात्मककर्मोपकारकं नोपपद्यत इत्यत आह-- तत्तदिति ।

 तत्तदधिष्ठानवर्णदेवतानां सिरामार्गगतामृतं पोषकम् ॥ ९४ ॥

 तत्तद्देवतात्मकं अकारादिक्षकारान्तं तत्तदङ्गाधिष्ठानाधिष्ठितम् । तस्य तत्तत्सिरामार्गगतामृतं पोषकं भवति । तस्य

  1. तथा । 'पञ्चशाखाः पञ्चाङ्गुलाः' इत्यधिकः पाठः-- A & B.