पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
141
तृतीयप्रश्नः

यथा घटः, इत्यनुमानविधया शरीरदार्ढ्यप्रयुक्तयोगसम्पादनेन मोक्षप्राप्तिर्भवति । "अङ्गुष्ठमात्रः पुरुषः" इत्यत्र लिङ्गशरीरं पादमात्रम् । तत्र श्रुतिः--

"पादोऽस्य विश्वा भूतानि त्रिपाद-
स्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषः"

इति । एषा श्रुतिः अङ्गुष्ठमात्रं प्रतिपाद्य तिष्ठति । स एवेश्वरो भवति । सोऽपीश्वरः त्रिपादेन दिवि स्थितामृतमाहृत्य स्वशरीरं सन्तर्प्य जगच्छरीरमपि वहति । विराड्रूपेश्वरगोचरज्ञानसाधक अन्तरिन्द्रियात्मगोचरज्ञानसामग्रीसम्पादनापेक्षया जगच्छरीरात्मविषयकज्ञानगोचरज्ञानग्राहकसामग्र्या आत्मसाक्षात्कारो भवेदित्यर्थः ॥

 ननु योगिनामपि मूलाधारमादिभूतं सकलधातुपोषकं श्वासोच्छ्वासाभ्यां शिरस्स्थितममृतमाहृत्य शरीरसन्तर्पणं विधत्ते तस्य सर्वधारणत्वात् । योगं विनापि तत्कर्म कर्तुं शक्यत एवेत्य, स्वरसान्तरमाह-- मूलेति ।

 मूलाधारमादिभूतं सकलधातुपोषकम् ॥ ९१ ॥

 मूलाधारस्य कुण्डलिनीरूपस्य अनिलानलचक्रात्मकस्य तन्निष्ठश्वासोच्छ्वासाभ्यां धातूनामृतादनम् । योगाभ्यासजन्यपवनेन मूलाधारमादिभूतं यावत्कालं धातुदार्ढ्यकरणं जठरानिलप्रदं चिरायुःप्रापकं यावदिन्द्रियाणां अर्थविषयकज्ञानानुभवसार्थकरणं च लभ्यत इत्यर्थः ।

 ननु शरीरपादपः अमृतजलपोष्योपकारकः । अमृतातिविरिक्तव्यानपवनस्य शरीरव्यापकतावच्छेदकत्वात् । ननु मूलाधारपद्मस्य सकलधातुपोषकसकलशरीरव्याप्यपवनसंयोगे सति