पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
137
तृतीयप्रश्नः

नन्दस्वरूपम् । एवं गुणविशिष्टपरमात्मानं विषयीकृत्य अवलम्बते । एवं विचाररूपतर्कस्य रोगाभावकार्यजनकप्रयोजनप्रयतनं फलं भवति । तस्माद्देशकालभावना योगस्य विचार इत्युक्तम् । देशस्तु द्रव्योपाधिना त्रिधा भवति । क्वचिद्देशविशेषजन्यद्रव्यादनेन तद्देशीयानां वाताधिक्यं भवति । क्वचिद्देशविशेषजातद्रव्यादनात्पित्तप्रकोपो भवति । क्वचिद्देशविशेषजन्यद्रव्यादनेन कफप्रकोपो भवति । तत्तद्देशीयानां तत्तद्रोगनिवर्तकद्रव्याणां तत्तद्देशस्थितानां शरीरदार्ढ्यकरणं विचारयेदित्यर्थः । तत्तत्कालद्रव्यादनमपि पित्तरोगनिवर्तकमिति तत्तत्प्रयोजनानि विचारहेतुकानि संपाद्य कालं प्रापयेदित्यर्थः ॥

 ननु मनस आत्मप्रकाशार्थं आत्मव्यतिरिक्तसर्वपदार्थज्ञानस्यावश्यकत्वात् तर्कसहकृतज्ञानमावश्यकं भवति । स तर्क आत्माज्ञानार्थं परंपरया हेतुर्भवति । सविचार इत्युक्तम् । तर्हि निर्विचारोऽपि मोक्षप्रपादको भवतीत्युच्यमाने सति विचाराभावो निर्विचारः कथं भवतीत्यस्वरसादाह-- अस्मिन्निति ।

 अस्मिन्देशकालधर्मावच्छिन्नधर्ममात्रावभासनं निर्विचारः ॥ ८४ ॥

 अस्मिन् ब्रह्मणि देशतः कालतः वस्तुतश्च परिच्छेदराहित्यं तस्मिन्नारोपितधर्ममात्रं इदं भासते । तत्र इतरपदार्थविषयकज्ञानराहित्यस्य उपस्थितत्वात्, तत्रेतरपदार्थविचाराभावो निर्विचार इत्यर्थः ॥

 ननु सर्वविषयज्ञाने जाते सति आनन्दो भवति । एतदभावो निर्विचारः, तर्ह्यानन्दानुभवोपलब्धिः कथं स्यादित्यस्वरसादाह-- सुखेति ।

 AYURVEDA
18