पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
134
आयुर्वेदसूत्रे

 ननु भोगायतनं शरीरमिति प्रसिद्धम् । तथा सति विषयमात्रफलोद्देश्यकार्यकारणविषयनाश्यैकनाश्यं इति तन्निषेद्धुमशक्यम् । यावद्विषयानुभवकाल एव भोगकाल इत्याशयं मनसि निधायाह-- भोगेति ।

 भोगायतनं शरीरम् ॥ ७९ ॥

 सर्वार्थविषयकभोग्ययोग्यानां द्रव्याणां आयतनम् । सुखदुःखानुभवो भोग इति दुःखस्यापि भोगयोग्यविषयकामनात्मकद्रव्योपलम्भकत्वात् । तस्माद्भोगायतनं शरीरमिति । शरीरत्वस्य भोगायतनत्वावच्छेदकत्वादीति वक्तुं शक्यत्वात् ।

 ननु सुखविषयकप्रवृत्तिकमनोविषयकसुखानुभवज्ञानविषयकप्रवृत्तिमुद्दिश्य प्रवृत्तेस्तद्विषयानुभवजानन्दः मत्कामनाविषयकः दुःखविषयकज्ञानस्य मत्कामनाविषयकत्वाभावात् । तदर्थमेव भोगोपकार्यजनकसंपादनसामग्र्यैव फलितार्थत्वात् ।

 ननु सुखस्यापि दुःखानुषङ्गत्वात् सुखमपि दुःखमेव । विषयदुःखानुभवस्तु दुःखजनककर्मव्यतिरिक्तकर्मणा साध्यः । तस्मादुक्तरीत्या आनन्दहेतुकं बाह्येन्द्रियविषयोपलब्धिज्ञानानुभवकार्यं न भवेदित्यस्वरसादाह-- तदिति ।

 [१]तत्परमपुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ ८० ॥

 तदेव परमपुरुषार्थः, यन्नित्यद्रव्यजन्यज्ञानविषयकज्ञान आनन्दहेतुकं भवति, सा ख्यातिः सच्चिदानन्दात्मिका । आनन्दविषयकज्ञानं यस्यास्ति स एव जीवन्मुक्त इत्यभिधीयते । स सर्वदाऽऽनन्दानुभववान् भवति । मत्प्रवृत्तिस्तु दुःखव्यतिरिक्ता, कामनाप्रयुक्तत्वात्, सुखात्मिका कामना परमपुरुषार्थिका । गु

  1. तत्परं पुरुष. योग I. 16.