पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
133
तृतीयप्रश्नः

शरीरस्य ऐहिकफलं मोक्षफलं च । तयोर्वैराग्यमेव उभयफलं विधत्त इत्याह-- ऐहिकेति ।

 ऐहिकामुष्मिकविषयानुभाव्यभोगैकनाश्यमिति ज्ञानं वैराग्यम् ॥ ७६ ॥
 अविषयानन्दात्मकनैरन्तर्यज्ञानानन्दहेतुकं वैराग्यम् ॥ ७७ ॥

 ऐहिकामुष्मिकफलजन्येतरपदार्थविषयकफलान्युद्दिश्य आत्मा अनुभवविषयकमनोजन्यत्वात् तद्वैराग्यनैरन्तर्यज्ञानानन्दजन्यं विषयानन्दानुभवं विहाय आत्मज्ञानानुभवः परमपुरुषार्थ इति इतरविषयकज्ञानानुभवं निरस्यति । ऐहिकामुष्मिकफले नाश्ये इति ज्ञानं वैराग्यम् । ऐहिकामुष्मिकफलं विषयानुभाव्यं तत्तुच्छं कर्म प्रयासादनुभवे सति तन्नाशात् । तस्मादधिकफलदं वैराग्यमेव हि मोक्षफलहेतुकं भवतीत्यर्थः ।

 ननु परमात्मनोऽतीन्द्रियत्वेन इन्द्रियार्थसन्निकर्षाभावात् आत्मविषयकज्ञानाभावात् तज्ज्ञानविषयकानुभवानन्दस्सुतरामप्रसिद्ध एव, किन्तु इन्द्रियार्थसन्निकर्षाद्यादृशार्थोपलब्धिः सैव सुखविषयकज्ञानानुभवोपलब्धिश्चेत् तज्ज्ञानमेव आनन्दानुभवहेतुकम् । तदेव कार्यं यावद्धात्विन्द्रियदार्ढ्यापादकशुद्धरसान्नादनजन्यज्ञानं आनन्दहेतुकमिति प्रमाणत्रयोपलब्धिरित्यत आह-- तस्मादिति ।

 तस्माद्धातवस्तद्रोगभूम्यावष्टम्भाः ॥ ७८ ॥

 इन्द्रियार्थसन्निकर्षजन्यज्ञानं आनन्दहेतुकमिति उक्तम् । तस्मादिति-– तत्कारणवशात् धातवः पञ्चेन्द्रियाणि तद्रोगकार्यकारकाणीत्यर्थः ।