पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
131
तृतीयप्रश्नः

 स्त्रीपुंसोर्मध्ये पुत्रोत्पादकहेतुभूतरेतस आधिक्यं पुत्रजननहेतुकम् । पुत्रिकोत्पादनहेतुभूतं रक्ताधिक्यं पुत्रिकाजननहेतुकम् । स्वस्माद्भिन्नमूर्तेरेव पुत्रादिरिति स्मृतौ । मोक्षार्थिनः प्रवृत्तिः पुत्रिकाजननसामग्रीसंपादनपूर्विका दानयोग्यकन्याजननसामग्र्या एव हेतुत्वात् । यन्नैवं तन्नैवं यथा घटः । पुत्रिका जननसामग्री सम्पन्नपुत्रिकाजननसामग्री स्वसुखहेतुकमिथुनानुभवकार्यौपकार्यकत्वात् । प्रजाजननसामग्री लैकिकसामग्रीसंपादनं विना कथं लभ्यत इत्यस्वरसादाह-- प्रकृतीति ।

 प्रकृतिपुरुषौ पितराविति स्मृतौ ॥ ७० ॥

 तथा सति गुणविशिष्टपुरुषत्वात् मायाशबलित ईश्वरः आमुष्मिकफलं दत्त इत्यस्वरसादाह-- वृत्तीति ।

 [१]वृत्तिव्यवहितस्वरूपनिष्ठमनउत्साहात्पुनःपुनरभिनिवेशनं योगाभ्यासः ॥ ७१ ॥

 वृत्तिव्यवहितपुरुषः औपाधिकसंसर्गजातः प्रजाजनकसंसर्गहेतुभूतत्वात् । स्वभावतः तस्य गुणप्रोतद्रव्यत्वादेव वृतिव्यवहितत्वं भवति । तदेव तत्स्वरूपम् । तस्मिन् निहितं मनः । तस्य मनस उत्साहः प्रीतिः । प्रीतेरेव हृदयेऽभिनिवेशनम् । इतरपदार्थेषु विरागस्सन् य आत्मानं ध्यायति स तं ध्यातारं संसारसागरनिमग्नं तारयति । तदेवोत्तमफलम् । तदर्थमेवायुर्वेदप्रवृत्तेः प्रयोजनम् । इदमेव बहुपुरुषार्थप्रदानहेतुकं भवतीत्यर्थः । यस्य मनस उत्साहो जायते तस्य मनसः पुनरभिनिवेशनं तृप्तिकारकम् । सर्वदा अभ्यासपाटववशात् सर्वस्मिन्विषये अध्यात्मनिष्ठा मनः प्रसाद्य मोक्षप्रदा भवति ।


  1. वृत्तिर्व्यवहितः--A & B