पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
126
आयुर्वेदसूत्रे

प्रतिबन्धकः भ्रमजनकभ्रमगोचरसामग्रीसत्वात् । तथा हि-- भवदुत्पन्नं ज्ञानं न शुक्तिविषयकं, किन्तु तद्रजतविषयकं, हट्टपट्टणस्थितरजतनिष्ठचाकचक्यादिरूपगुणवत्त्वस्य समानधर्मत्वात्, तस्मादित्यनुमानप्रमाणेन ममोत्पन्नं ज्ञानं भ्रमविषयकं इत्यनुमानप्रमाणेनापि तद्वति तत्प्रकारकत्वस्य ज्ञातुमशक्यत्वात् । प्रत्यक्षजन्यप्रमाणज्ञानस्य अनुमितिजन्यप्रमाप्रतिबन्धकत्वात् । तस्मादुभयत्रापि प्रामाण्याग्रहादित्यस्वरसादाह-- ताभ्यामिति ।

 ताभ्यां चित्तवृत्तिनिरोधः ॥ ६१ ॥

 चित्ते मनसि वर्तत इति चित्तवृत्तिः । ताभ्यां प्रमाणाभ्यां तद्वति तत्प्रकारकत्वाग्रहः रसविरसजन्यरोगहेतुकत्वादित्यर्थः ॥

 ननु अयं शुद्धरसवद्द्रव्यादनवान् भवति । सोऽप्रामाण्याभावज्ञानवान् भवति । एवमाकारेण उभयोर्व्याप्तिग्रहे सति अप्रमाज्ञानं वक्तुमशक्यम् । तथा हि-- प्रमाप्रतीकारकसामग्रीशुद्धरसवद्द्रव्यादनसामग्रीति वक्तुं न शक्यते । पुरोवर्तिनि तद्वति तत्प्रकारकज्ञानानन्तरं तस्मिन्विषये अन्यस्य दोषवशाद्भ्रमो जायते । तेन हेतुना वाक्यप्रयोगो जातः । एतदुत्पन्नज्ञानं अप्रमाणविषयकमिति वाक्यश्रवणानन्तरं एतस्यापि प्रामाण्यविषयज्ञाने सति संशयो भवति । विरसादनमपि अप्रामाण्यप्रतिपादकसामग्री भवति, इत्याशयं मनसि निधाय भ्रमोत्पादकसामग्र्यन्तरं प्रतिपादयति-- यावदिति ।

 यावद्धातुसिरादिसञ्चरत्प्राणापानव्यानोदान[१]समानानिलनिरोधनं भ्रमहेतुकम् ॥ ६२ ॥


  1. समानानिलेभ्यो निरोधनो योगः--A & B.