पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
122
आयुर्वेदसूत्रे

 ननु इदं पुरोवर्तीन्द्रियविषयकं प्रमाप्रमागोचरोभयज्ञानग्राहकसामग्रीविषयकं शुक्तिरजतोभयविषयकज्ञानग्राहकसामग्रीजन्यत्वादित्यस्वरसादाह-- सदिति ।

 सदसत्सम्बन्धविवेकविधिरहितज्ञानविषयकम् ॥

 अस्मिन्विषये देवदत्तस्य ज्ञानं शुक्तिविषयकम् । यज्ञदत्तस्य ज्ञानं रजतविषयकम् । एतस्मिन्विषये सदसज्ज्ञानगोचरज्ञानमिदमिति निर्णेतुमशक्यत्वात् इदं ज्ञानं न रोगजन्यं, किं तु अन्यप्रयुक्तवाक्यजन्यं, तदन्यज्ञानस्य रोगजन्यत्वात् । ममोत्पन्नज्ञानस्य अरोगजन्यत्वादेव सदसद्विधिविरहितज्ञानविषयकः स एव संशयो भवतीत्यर्थः ।

 इतः परं कैश्चिद्व्याख्यातं व्याचष्टे-- सच्छब्दस्य पुरोवर्तिशुक्तिकाशकलं इन्द्रियविषयकमर्थो भवति । तत्पदार्थमुद्दिश्य हट्टपट्टणस्थितरजतसदृशचाकचक्यादिसामग्रीजातपुरोवर्तिज्ञानविषयकशुक्तौ अन्यस्य इदं रजतं इति ज्ञानं तदज्ञानविषयकं असद्विषयकं वा साध्यं, तत्सम्बन्धविवेकज्ञानमित्युच्यते । तद्विरहितज्ञानस्य यः पदार्थो विषयो भवति स एवार्थो ज्ञानविषयक इत्यर्थः ।

 ननु इतरपदार्थज्ञानरहितज्ञानविषयकं प्रमात्वमिति वक्तव्यम् । तथा सति अस्मिन् ज्ञानविषयकज्ञानकाले सर्वपदार्थसामग्र्यभावात् कथं पुरोवर्तिज्ञानं प्रमात्वेन ज्ञातुं शक्यत इत्यस्वरसादाह-- अभावेति ।

 [१]अभावप्रत्ययावलम्बना वृत्तिः निद्रा ॥ ५४ ॥

 नितरां पुरोवर्तिविषयकज्ञानगोचरज्ञानग्राहकसामग्रीकाले

  1. योग. 1. 10.