पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
110
आयुर्वेदसूत्रे

 ननु यद्विरुद्धरसवद्द्रव्यादनं यावद्रोगहेतुकं तद्विरुद्धद्रव्यादनं तत्तद्रोगनिवर्तकमिति वक्तव्यम् । तथा सत्यमधुररसजन्यरोगाणां निवर्तको मधुररस एव भवति । यथा कदळीफलविरसजन्यरोगस्य अजीर्णस्य कदलीफलरसद्रव्यादनं निवर्तकमिति वक्तुमशक्यमित्यर्थः । किंतु आम्लरसाद्या निवर्तका भवेयुरिति तात्पर्यम् । यावद्द्रव्यादनज्ञानं यत्काले यथोपलब्धं तत्काल एव पूर्वदिनान्नापेक्षया लघुतरान्नादनं पथ्यं भवतीति तत्कालयोग्यद्रव्येण प्रथमदिनजन्यरोगस्य तत्कालोचितरोगाभावकार्यस्य प्रागभावपरिपालनं पुरुषार्थ इत्यर्थः ।

 ननु रसविरसान्नादनाज्जातप्रमाप्रतीतस्थले यथा घटज्ञानगोचरज्ञानानन्तरं तत्रैवातिनिरीक्षणेन चक्षुर्दोषवशात् तत्प्रतीतिविषयतद्विषयतात्कालिकसंशयः कथं स्यादित्यस्वरसादाह-- अत्यन्तेति ।

 [१]अत्यन्तानिमिषदृष्ट्या चक्षुरिन्द्रियदोषस्सम्भवति ॥ २३ ॥

 तद्दोषवशात् तत्प्रमा अतत्प्रतीतिविषयस्थले दोषग्रस्तेन्द्रियगोचरज्ञानजन्यप्रमायाः संशयज्ञानस्य अप्रतिबन्धकत्वात् तत्र संशयो भवतीत्यर्थः ।

न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् ।

एतद्वचनानुसारेण इन्द्रियातिलालनमेव अनिमिषदृष्टिरिति न संशयः । विरुद्धरसादनजन्यं न भवतीति विशेषदर्शनसामग्रीसंशयप्रतिबन्धकात् तन्निवर्तकरसादनसामग्री ? तस्य जनकत्वाभा

  1. A. B.कोशद्वयेऽप्येतत्सूत्रं न दृश्यते.