पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
103
तृतीयप्रश्नः

तद्गुणविशिष्ट आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां प्राप्यप्रकाशत्वनियम इति न्यायस्य दृष्टत्वात् । राजसगुणसंस्पृष्टदोषवशात् आत्मानुभवं पिधाय बाह्यविषयकसुखमनुभूयत इत्यर्थः । यदा सत्वो जीवः तामसगुणविशिष्टो भवति तदा तामसगुणविशिष्टस्सन् दुःखानुषङ्गं सुखमनुभवतीत्याह-- तम इति ।

 [१]तमउद्रेकात्कृत्याकृत्याज्ञानात्क्रोधादिभिर्नियमितो मूढः ॥ ५ ॥

 तामसगुणाधिक्यात् कार्यविवेकज्ञानराहित्येन मूढमनाः क्रोधद्वेषादिभिः तद्विषयकज्ञानमनुभवति । ईषणत्रयविशिष्टतद्विषयकसुखमनुभूयत इत्यर्थः । यदा सत्वस्य सात्विकगुणाविर्भावो भवति, तदा धर्मप्रतिपादकवेदान्तशास्त्रेष्वासक्तः स्वधर्मशास्त्रप्रतिपाद्यकर्माचरणेन सुकर्मजन्यसुखमनुभूयत इत्याह-- सात्विकेति ।

 सात्विकोदयात्सुखम् ॥ ६ ॥

 [२]दुःखाभावसाधकशब्दादिप्रवर्तकं सात्विकम् । जीवः सात्विकगुणाविर्भावे सति तद्धर्मप्रतिपादककार्यकरणेन स्वर्गविषयकसुखं भुङ्क्त इत्यर्थः ।

 ननु जीवात्मनः कदाचिद्राजसगुणानुभवः, कदाचित्तामसगुणानुभवः, कदाचित्सात्विकगुणानुभवो दृश्यत इति प्रतिपादितम् । नियमेन त्रिगुणानुभवस्य को हेतुरित्याकाङ्क्षायामाह-- मधुरेति


  1. तम उद्रेकात्सत्याज्ञानात् क्रोधादिभिर्नियमितं मूढम्
  2. दयाद्दुःखाभावसाधकशब्दादिप्रवर्तकं सात्विकम्