पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
102
आयुर्वेदसूत्रे

नगोचरज्ञानजन्यकार्यमनित्यं भवति । आत्मनो नित्यद्रव्यत्वात् नित्यद्रव्यविषयकज्ञानगोचरज्ञानमेव आनन्दो भवति । अन्तरिन्द्रियस्य मनसः आत्मगोचरस्वभावत्वेन सर्वकाले आनन्दानुभवो लभ्यत इति आत्ममनस्संयोगस्यैव योगत्वात् योगः शाश्वतं फलं प्रयच्छतीत्यर्थः ।

 ननु परमात्मनो नित्यद्रव्यत्वाद्विभुत्वाच्च सर्वदा मनसः आत्मना समवेत्य स्थितत्वात् सर्वदा आनन्दानुभव एव भवेत् । इन्द्रियस्यार्थेन समवेत्य प्राप्यप्रकाशत्वनियमात् । तजूज्ञानगोचरज्ञानं आत्मनो विषयीकृतं भवतीत्यत आह-- प्रकृतीति ।

 प्रकृतिपुरुषान्तर्मुखज्ञानगोचरप्रत्ययप्रकृतिपरिणामो योगः ॥ ३ ॥

 प्रकृतिविशिष्टपुरुषं विषयीकृत्य अन्तरिन्द्रियेण मनसा गुणविशिष्टपरमात्मनि विषयीकृते सति बाह्येन्द्रियार्थविषयज्ञानविरामेण तादृशगुणविशिष्टपरमात्मानुभवस्य परमानन्दहेतुकत्वात् तद्विषयकज्ञानयोगः परिणामयोग इत्यर्थः । प्रकृतिपुरुषविशिष्टद्रव्यं यदा विषयो भवति तदा आनन्दानुभव इत्यर्थः । तथा सति विषयानन्दमुद्दिश्य प्रकृतिविशिष्टात्मविषयकज्ञानं परमानन्दहेतुकमिति सर्वदा अयमानन्दानुभवं विषयीकरोतु, किं बाह्येन्द्रियविषयगोचरज्ञानेन, अल्पानन्दानुभवहेतुकत्वादित्यत आह-- रज इति ।

 रजउद्रेकादस्थिरं बहिर्मुखात्सुखदुःखहेतु ॥ ४ ॥

 परमात्मा कंचित्कालं राजसगुणविशिष्टो भवति । कंचित्कालं सात्विकगुणविशिष्टो भवति । कंचित्कालं तामसगुणविशिष्टो भवति । यदा जीवात्मनि राजसादिगुणाः आत्मभावा भवन्ति