पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
92
आयुर्वेदसूत्रे

 धातुपोषकं वह्निप्रवर्धकत्वात् । येनैव अनामपालनमपि अभिवर्धते तेनैव तदेव पोषकं तदेव शोषकं च समशोषककरणपोषककरणम् । द्रव्यभेदे सति तद्वक्तुं शक्यते । वह्नि्प्रवर्धकद्रव्यादनमात्रेण चरितार्थत्वाभावात् । किं तु स्नेहवद्द्रव्यमिति वक्तव्यम्, तद्द्रव्यस्य शोषकार्यहेतुकत्वादित्याह-- तत्तदिति ।

 तत्तदर्थास्स्नेहयोग्याः प्रवर्धकाः ॥ ७७ ॥

 स्नेहवद्द्रव्यं वह्निप्रवर्धकपदार्थतावच्छेदकत्वेन एकप्रकारकत्वेपि स्नेहवद्द्रव्यादने पदार्थभेदसंबंधादित्यर्थः ॥

 निवर्तकपदार्था बहवस्सन्ति । तत्सर्वेषां प्रयोजकत्वं वक्तव्यं, तादृशसर्वद्रव्यादनस्य योग्यत्वात् । शुद्धद्रव्यं स्नेहेन साकं विपाच्य तत्पाचकस्नेहं शोषकपार्थिवकार्यं करोतीत्याह-- विशुद्धेति ।

 विशुद्धस्नेहमयं निवर्तकम् ॥ ७८ ॥

 अभोज्यद्रव्याणि रोगप्रतिपादककारकाणि बहूनि सन्ति । भोज्यद्रव्याणि रोगनिवर्तकानि बहूनि सन्ति । कानि चिद्द्रव्याणि पाके रसान्तरं भूत्वा तत्तद्रोगोपशमनं कुर्वन्ति । द्रव्याणि द्रव्यान्तरसंयोगे सति तत्तत्संयोगजन्यफलं प्रयच्छन्ति । बहुद्रव्यसंयोगे बहुफलं प्रयच्छन्ति । विरुद्धद्रव्यसंयोगे सति विरुद्धद्रव्यफलं प्रयच्छन्ति । तत्सर्वमालोच्य तत्तज्जातीयबहुद्रव्ययोगकरणं शुद्धं भवति । यथा यवक्षारहरितद्रव्यसंयोगेन स्वस्वरूपं विहाय रक्तरूपं भाति । द्रव्यं द्रव्यांतरसंयोगे सति तत्तद्द्रव्यविहिताधिकगुणं विधत्ते । यावद्द्रव्यसंयोगजन्यं विधत्ते । यद्द्रव्यसंयोगजन्यरसवद्द्रव्यं शुद्धमित्युक्तं । तादृशशुद्धद्रव्यैस्साकं पाचितं स्नेहपानाभ्यां सुपाचितं स्नेहगुणं प्रयच्छति । स्वाद्वम्ललवणविशिष्टयावद्द्रव्यसंयोगहेतुकं पवन