पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
89
द्वितीयप्रश्नः

न च तत्प्रागभावपरिपालनं निवर्तकं भवेदिति वक्तुं शक्यते, सर्वत्रापि तथात्वे अतिप्रसङ्गादित्यस्वरसादाह-- निवर्त्य इति ।

 निवर्त्यो विकारः ॥ ७० ॥

 निवर्तयितुं योग्यो निवर्त्यः, स विकारः । निवर्तकस्य विकारहरणं विचारणीयम् । सर्वव्याधिप्रागभावस्य सर्वदा विद्यमानत्वात् । तस्येदमिदमिति प्रत्येकावच्छेदेन तत्तन्निवर्तकत्वस्य निर्णेतुमशक्यत्वात् । तस्मात्तदा विकारे जाते सति तत्तन्निवर्तकत्वस्य निर्णेतुमशक्यत्वात् निवर्त्यो विकार इति सूत्रे प्रतिपादित इत्यर्थः ॥

 ननु विकारे सति स्वाद्वम्ललवणरसाः विकारप्रतिकारका इति पूर्वमेव प्रतिपादितम् । तच्चिन्त्यं, "निवर्त्यो विकारः" इत्यत्र रसाद्या निवर्तका न भवन्तीत्यस्वरसादाह-- आमेति ।

 आमवृद्विविकारस्सर्वरोगहेतुभूतः ॥ ७१ ॥

 अत एव यः पाचकपित्तेन तूत्पाद्यते सोऽनलः पक्वाशयगतार्थमेव पचति । तद्विरुद्धरसजन्मामयस्य मलाशयस्थितत्वात् । पार्थिवद्द्रव्यावयवोपाधिकरसोपलम्भकसुगन्धगुणभूयिष्ठपाकौपाधिकयोग्यस्वादुरसद्रव्यं पोषकद्रव्यं, अनलावयवाधिकलवणोष्णरसवद्द्रव्यलघुतूलिकावयवजातक्षारगुणकतदितररसवद्द्रव्यातिरिक्तद्रव्यं अद्रव्याधिकावयवस्नेहवद्द्रव्यं, स्वादुगुणभूयिष्ठपाके जठरानलप्रदं तिक्तज्ञानविषयकं यत् तत्पार्थिवद्रव्यम् । तत्पत्रभेदद्रव्येषु त्रिविधोपकारकत्वं, पुष्पफलभेदद्रव्येषु त्रिविधदोषोपकारकत्वं, फलभेदद्रव्येषु त्रिविधोपकारकत्वम् । तत्तज्जातिविधिविहितद्रव्याणि तत्तद्विकारप्रतिकारकाणीति तत्तल्लक्षणेषु शरीरेषु योग्यानीति विशेषितव्यम् । न तत्र स्थानांतरतत्तज्जातीय

 AYURVEDA.
12