पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
77
द्वितीयप्रश्नः

इन्द्रियाणि च वार्धिकद्रव्यादनात्ते तु परिशुद्धास्सन्तः शरीरं पुष्णन्ति न ते शरीरोत्पादका इति आदौ शरीरोत्पादनकार्ये तदुत्पादकसामग्रीसम्पादनं विना कथं शरीरोत्पादनस्य आशयादीनां च सम्बन्धो घटते ? इत्यस्वरसादाह-- शुक्रेति ।

 शुक्रशोणितसन्निपातो योनिः ॥ ५१ ॥

 पुरुषजन्यं शुक्रम् । स्त्रीजन्यं शोणितम् । तयोर्हेतुभूतं योनिः । सानिपात्यं संसर्गहेतुभूतात्मकं तयोस्सान्निपात्यमभिधीयते । शुक्रस्य सर्वदा बीजोत्पादकत्वं वक्तुमशक्यम् । किन्तु आशयाः परिशुद्धास्सन्तः तथा प्रजाजननहेतुभूता भवन्ति । स्त्रीजन्यशोणितस्यापि तथैव । योग्यकालस्त्रीपुरुषसंयोगव्यापारहेतुभूतदिव्ययोनिदृढतरसंपर्कात् बीजाधारप्रदेशो गर्भाशय इति तज्जनकत्वस्य च सुप्रसिद्धत्वात् । योनावेव सत्वः गर्भस्सन् तदनन्तरं गर्भाशयं प्रविश्य विवर्धत इत्यर्थः । ननु अस्मिन्कार्ये आशयाः परिशुद्धा भवन्तु । तद्द्वारा शुक्रशोणिते अपि परिशुद्धे च तयोरेव बीजात्मकत्वात् । कथं तदेधते ? कथं विवर्धते ? कथं चेष्टाश्रयं चलनामकं चेति वक्तुं शक्यते ? इत्यस्वरसादाह-- योन्यामिति ।

 योन्यामाविरभूदजो विधिचोदितः ॥ ५२ ॥

 अजो जीवात्मा योनिं प्रविश्य गर्भाशये आविरभूत् अदृश्यत ।

 "रेतोमात्रं विजहति । योनिं प्रविशदिन्द्रियं गर्भो जरायुवृतः । उल्बं जहाति जन्मना । ऋतेन सत्यमिन्द्रियम् ।" इति श्रुतेर्विद्यमानत्वात् ।

 ननु शुक्लशोणितसन्निपाते पिण्डे सत्वं प्रविश्य गर्भाशये यत्स्थितं तदेव शरीरम् । लक्षणं तु "पञ्चभूतात्मकं शरीरम्"