पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
76
आयुर्वेदसूत्रे

भावः प्रतिपादितः । मातापित्रोश्च शरीरविषयकशास्त्रविज्ञानजन्यकर्मणः फलं शरीरावयवदार्ढ्यकरणसामग्रीसम्पादनानुभवावयवावयवित्वं सम्पद्यते । तयोः स्त्रीपुरुषयोश्शुक्लं चार्तवं च तौ तथाभूतौ गर्भाशये पिण्डत्वेन प्रतिष्ठितौ । ताभ्यामेव बीजात्मकाभ्यामविकारभूताभ्यां प्रजाजननहेतुभूताभ्यां सत्वमाविर्भवति । तत्र शारीरवचनं--

शुद्धे शुक्रार्तवे सत्त्वः स्वकर्मक्लेशचोदितः ।
गर्भस्सम्पद्यते युक्तिवशादग्निरिवारणौ ॥

 ननु आमयकारकसिरागतासृग्विमोचनमात्रेण शुक्लार्तवौ । परिशुद्धावित्युक्तम् । न तावन्मात्रेण सङ्गच्छतेऽदुष्टाशयः । अविरुद्धदोषशुद्धेन्द्रियशुद्धानला एते वार्धिकद्रव्यादनाद्भाव्या एतत्सूत्रगतसिरागतदुष्टरक्तविमोचनमात्रादेव । इदानीं शुक्रार्तवौ बीजोत्पादकहेतुभूताविति पार्थिवद्रव्यादनं विना कथं भवेतामित्यस्वरसादाह-- शुद्धोति ।

 शुद्धाशयशुद्धदोषशुद्धानलशुद्धेन्द्रियगुणहेतुकपार्थिवद्रव्यैः प्रजाः प्रजायन्ते ॥ ५० ॥

 वार्धिकद्रव्यादनादेव सर्वाशयाः परिशुद्धा भवन्ति । इन्द्रियाणि चाविकारदोषाणि । तथा पञ्चानिलाश्च पञ्च पाचपित्तानि चादुष्टास्सन्तः लघुगुणकारकवार्धिकद्रव्यादनाद्भवन्ति । किं च सात्विकद्रव्यादनं सात्त्विकगुणहेतुकम् । राजसद्रव्यादनं राजसगुणकारकम् । तामसद्रव्यादनं च तामसगुणकारकम् । वार्धिकद्रव्यादनाज्जाताशयादिकं विना बीजोत्पादनं न भवतीत्यर्थः ।

 इदानीं शरीरजननकार्ये तत्प्रतिपादकसामग्री सम्पादनीया । सा आवश्यकी भवति । आशयाश्च दोषाश्च अनलाश्च