पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
73
द्वितीयप्रश्नः

तिपूर्णसिराणामवेध्यत्वज्ञापकं यादृशानां स्वरूपज्ञाने सति वक्तुं शक्यते तत्प्रयोजनमपि तथा । तस्मान्मर्माशयमज्ञात्वा तन्निषेद्धुमशक्यमित्यस्वरसादाह-- ता इति ।

 तास्सिरा मर्माशयगा रिक्ताः ॥ ४७ ॥

 रन्ध्रसञ्चारे पवनस्य योगाधारकत्वात् सरन्ध्रकायसिरावच्छेदनेन दोषप्रकोपो भवति । ता न वेध्याः । या सिरा अतिरिक्ताभ्यन्तरधरदोषसञ्चारार्थं अवकाशाभावद्रव्यत्वात् सरन्ध्रा सती अन्तरिन्द्रियं भूत्वा वर्तते सा सिरा न वेध्या मर्मस्थानतद्गुणहेतुभूतत्वात् । तत्प्रयोजनं यावद्वर्णमात्रोच्चारणं तदन्वयाधीनम् । तास्सिरा न वेध्याः । अतिपूर्णास्सर्वकालेषु पवनपूरितरन्ध्रेषु दोषसंचारहेतुभूताः श्रोत्राकाशस्य स्वभेदप्राप्योपकारकाः ताश्च मर्माशयगा इत्यर्थः ।

 ननु अष्टनवतिसिराणां मध्ये यत्र यत्र स्थाने यत्सिराश्रितवर्णदोषः प्रदृश्यते, किं च विरसादनाज्जातग्रहणीकलादौर्बल्येन तत्रस्थितवर्णदोषः गमनागमनमार्गनिरोधात्पवनादिषु विकारश्च प्रदृश्यते, तत्र तत्तद्वर्णोत्पादकसिराश्रयस्थलेषु तत्तद्धेतुभूतरसविरसजातरोगाः प्राप्नुवन्ति । शिरोऽस्थिविकारेषु सत्सु शिरोरोगा इति व्यवह्रियन्ते । सिराविकारेषु नेत्रदेशेषु सत्सु, तत्रायं नेत्ररोगवानिति व्यवह्रियते । कर्णदेशस्थितसिराविकारेषु सत्सु कर्णरोगवानिति व्यवह्रियते । तत्तत्सिराधिष्ठानस्थितदोषादयः विरसादनजातग्रहणीकलादौर्बल्ये तत्तदधिष्ठानस्थितसिरामार्गगमनाभावजातरोगाः गमनागमनक्षोभवशात् तत्तत्स्थानस्थितसिराविकारान् प्राप्नुवन्ति । तत्तद्विकारान् तावत्सिरा एव बोधयन्ति । तत्तत्प्रदेशाधिष्ठितत्वात्, तत्तद्देशोपाधिना शिरा

 AYURVEDA.
10