पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
72
आयुर्वेदसूत्रे

"धन्वन्तरिस्तु त्रीण्याह सन्धीनां च शतद्वयम्"
एतद्वचनमारभ्य न हि धन्वन्तरिमते ।
"तदधिष्ठानमन्नस्य ग्रहणात् ग्रहणी मता ।
सैव धन्वन्तरिमते कला पित्तधराह्वया ॥"

 एतावत्प्रतिपादितार्थं सद्वर्णात्मकपदार्थप्रवृत्तिविषयकज्ञानगोचरज्ञानकार्योद्बोधकसिराः सप्तशतसङ्ख्याकाः ता न वेध्या इति ज्ञापनार्थं "सैव धन्वन्तरिमते" इति शारीरे प्रतिपादितम् । तदेवायुर्वेदप्रतिपादितार्थमिदमिति विविच्य दर्शनात् 'सैव’ इत्युक्तम् आमपित्तं पक्त्वा पाचककला सुप्रसन्ना सती तदधिष्ठानवर्णानां ज्ञापकत्वात् ग्रहणीत्यभिधीयते । अविरुद्धरसद्रव्यादनाज्जातकला प्रबला सती सुवर्णसुस्वरसुपदसुवाक्यबोधिका । कर्णशष्कुल्यवच्छिन्नाकाशस्य एतेन आयुरारोग्यतेजोधातुप्रतिपादिका भवतीत्यर्थः । अत्र सूत्रवचनं--

उन्मार्गगा यन्त्रनिपीडनेन
स्वस्थानमायान्ति पुनर्न यावत् ।
दोषाः प्रदुष्टा रुधिरं प्रपन्ना
तावद्धिताहारविहारभाक्स्यात् ॥

नात्युष्णशीतं लघुदीपनीयं रक्तेऽपनीते हितमन्नपानम् ।
तदा शरीरं ह्यनव[१]स्थितास्रमग्निर्विशेषादिति रक्षणीयः ॥[२]

 सव्याधिनिदानहेतुभूतस्य शब्दोच्चारणादवगम्य तद्व्याधिविधिरिति ज्ञानमुपलभ्य चिकित्सां कारयेदिति । यद्यन्तस्स्थितविकारं शब्दोच्चारणादेव ज्ञात्वा साध्यविधिं विज्ञाय कारयेदिति तात्पर्यम् । स्वरास्वरं जीर्णहेतुकसिराभिबोधककार्यं दुष्टासृग्विमोचनद्वारा सिराया हेतुत्वं प्रतिपादितमित्यर्थः । रिक्तातिरिक्ता

  1. स्थितासृगग्नि.
  2. अष्टाङ्गहृदयम्, सू. ५२.