पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V कल्पसूत्रप्रवृत्तेः कल्पशब्दश्च प्रयोगपरः । प्रयोगश्च बहुश्रुतप्रयोक्तृबहुले धनैकनिरतजनभूयिष्ठे कलिदोषळवविदूरेऽवसरे साङ्गसरहस्यत्ना- नाशाखाध्येतृषु महर्षिषु नानाशाखास्थतत्तद्विशेषोपसंहारेणा सुष्ठानप्रवाहं प्रचारयत्सु विनैवायास समाकलनीय आसीत् । तत- स्ततोऽनृषिषु श्रुतर्षिषु च प्रचरत्सु अनुष्ठानवैगुण्यादिदोषान् सम्भावयद्भिः महर्षिभिराधिकारिकैर्यथायथै सकेपविस्तरप्रक्रियया श्रद्धाल्वनुष्ठातृजनानुजिघृक्षया नानाशाखास्थतत्तद्विशेषसङ्गहेण सुगमा इति ? प्राणायिषत सूत्रनिबन्धाः। ये किल प्रथन्ते , बोधाय नाश्वलायनापस्तम्बहिरण्यकेशिखाद्विदाह्यायणलाट्यायनशाद्वयन मानववाराह कौशिकवैखानस भारद्वाजादि तत्तत्सुगृहीतनामधेय भूषितैरेव सूत्रपदैः। 1 तेषां जुह्वकल्पः (६३३ सु ) (१८-१-३ सु ) धूर्तस्वामि- पर्दिस्वामिभ्या कल्पो विधि इति विवरणात्। रामान्निचिता । च ‘ प्रयोगतया इति पूरण्यात् । अन्यत्रापि भाष्यकाराभ्यां कल्पशब्दस्य विधिशब्देन विवरणाचा तथास्वमवसयत । 2 कल्पसूत्रप्रवृत्तावुकमेव हेतु मन्यन्ते भाष्यकारादय ;~दर्शपूर्णमासौ व्याख्यास्याम इत्यत्र व्याख्याया आवश्यकत्वोपपादनाय ‘ कश्चिद्भयान् तत्र मन्त्रब्राह्मणब्याख्यातत्वाद्दर्शपूर्णमासयोः अनथकसुत्रकारयल इति , तच्च न ; दुर्शनत्वात्ङ्यर्थस्यायतनैः , अनेकविध्युपसंहारस्य च । अतो नानर्थक इति तस्वामी (१० पु)। एवं बोधायनकल्पव्याख्यारम्भे- ‘ब्राह्मणाना बहुत्वात् एकैकस्या शाखायां परिसमाप्तत्वात् अर्थस्य च दुरवबोधत्वात् संहृत्य विवरणार्थं सुखं बुद्ध्वा कर्माण्यनुष्ठाय फलं सर्वं प्राप्नुयु रिति कल्प आरब्ध आचार्येण’ इति भवस्वामी । एवं आश्वलायनश्रौतदेवत्रातभाष्येऽपि- तत्र पुरुषशक्तिपरिहारमुपलक्ष्य शौनकादिभिराचारैः कल्पाः प्रणीता इति ॥