पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

310 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू ५. (भा) यस्य तु प्रवृत्तम्तस्य वैमृघं कृत्वा आग्नावैष्णबादीनि । अग्ना- विष्णुभ्या सरस्वत्यै सरस्वते, अग्नाविष्णू सरस्वति सरस्वन्, अग्नाविष्णू सरस्वती सरस्वन्तम्, अग्नाविष्ण्वो सरस्वत्या सरस्वत , अग्नाविष्णू ('अग्नाविष्णू अग्नाविष्णू ,) प्रणो देव्यानो दिव । पीपिवासश्सरस्वतो यस्य व्रतमिति ।। | | याज्यानुवाक्यापरिग्रहेतिदेशः ] | एव सर्वत्र याज्यानुवाक्या' अन्यत्र परिपाठात् ।। (स) पौर्णमासीमेव यजेत भ्रातृव्यवान् नामावा- स्यायाम् ॥५॥ १६ ॥६२२ ॥ (३) यस्य तु प्रवृत्त-ष्णवादीनि त्रीणि , तस्याङ्गत्वात् । एतच्च व्याख्यात भिन्नतत्रपक्षे । समानतन्त्रपक्षे तु * सस्थाप्येत्यस्याविरोधः ।। अग्नाविष्णू - याज्यानुवाक्याः --याज्यानुवाक्याकाण्डतया उभावामिन्द्राग्नी इत्यादि प्रश्नान्त्यानुवाकांत् ग्रहीतव्या, इति - विकृती ष्टीना सृर्वासा याज्यानुवाक्याकाण्डपठितेभ्यो यथा देवतयाज्यानुवाक्या ग्रहीतव्या ।। [भाष्यदर्शितयाज्यानुवाक्यापरिग्रहविशेषविवरणम्] अन्यत्र परिपाठात्‌-- यथा अन्वारम्भणीयाया त्वद्विश्वासुभग-

  • सौभगानीत्यादि । अस्माकं याज्यानुवाक्याकाण्डतया उभावामिन्द्राग्नी

इत्यादिप्रश्नान्त्यानुवाका सूत्रकारेण चाम्नाता याज्यानुवाक्यालिङ्गै- र्नियम्यन्ते इति विनियुक्ताः । अतः सूत्रकारेण पठितयाज्यानुवाक्यानां कर्मणा तेभ्य एवोपादानम् ।। 1 कुण्डलित ग-पुस्तके न दृश्यते 2 नामावास्याम् ?–के 3 व्याख्या- नम्-क घ 4 सस्थाप्यस्या (मु रा) 5 विकृतीनाम् (मु रा) ६ सँभगानीति-इत्यादि-घ.