पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

252 श्रीरामाभिचिवृत्तिसाहितधूर्तस्वामिभाष्यभूषिते [ख ४, स् ७. प्रस्थास्यामस्समिधमाधायानीत्परिधीश्चानिं च सकृत्सक्संमूढीति संप्रेष्यति ।। ४२॥५०१ ॥ (स्) - अनुज्ञातो ब्रह्मणा आनीध्रः समिधमादधात्येषा ते अने सामित्तया वर्धस्व चाच प्यायस्व वर्धतां च ते यज्ञपतिराच प्यायतां वर्धिषीमहि च वयमा च प्यायिषीमहि स्वाहेति ।।६॥ ४३ ॥५०२ ।। [सुत्रे विवक्षितार्थानुगुणयोजन। .(भा) अनुज्ञातो ब्रह्मणा यदाऽऽमीषाः तदा आमीभ्रान्समिधमादधाति॥ (ख) पूर्ववत्परिधीन् सकृत्सकृत्संमृज्याने वाजजिद्वाजं त्वा ससृवासं वाजं जिगिवासं वाजिनं वाज- जितं वाजजित्यायै संमार्जिम अग्निमनादमनाद्या येति सकृदग्निं प्राञ्चम् ॥७॥ ४४ ॥ ५०३ ॥ [भाष्यदर्शितयोजनापूरणम् ] (हृ) अनुज्ञातो ब्रह्मणाऽऽनीध्रो--यदा अध्वर्युस्तदा । [उकयोजनाऽऽवश्यकत्वोपपादनम् ] समिधमादधातीति--अस्यार्थ अनुज्ञात आनीध्रः समिध- मादधातीति नैवमन्वय ब्रह्मन् प्रस्थास्याम इत्यध्वर्युणा प्रार्थितत्वात् तस्यैवानुज्ञान बक्षणा कृतम् ; अतस्तथा योज्यम् । न च प्रस्थास्याम इति बहुवचनात् सर्वार्थप्रार्थनम् ! प्रतिष्ठेत्येकवचनेनानुज्ञानात् ॥ ननु आमन्त्रायताऽध्वर्युरव हि ब्रह्मणानुज्ञातव्य ? कथमाम्नीध्र ? उच्यते अध्वर्युणा तावत् ब्रह्मन् प्रस्थास्याम इति बहुवचन सर्वविगर्थमामन्त्रणमुक्तं ब्रह्म गोप्य प्रतिष्ठेति बहुवचनार्थेनैकवचनेन सर्वार्थ एव प्रसव कृत , तेनानध्रस्याप्यनु शतत्वाद्युक्तमेव तथा वसुम् । अथवाऽनुयाजप्रक्रम। टीमों प्रतिष्ठेयानीध्रस्यैवानुज्ञा। यथाऽऽहाश्वलायनः ओं प्रतिष्ठेति समिधमनुजानीयादिति (१)