पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

245 खं ३, सु. २] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने प्रथम । पटलः (सू) प्राशितायामिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः। तस्यास्ते भक्षिवाणस्स्याम सवो मनस्सर्वगणा इति यजमानपञ्चमा इडां प्राश्य ॥ ११ ॥। २३ । ४८२ ॥ द्वितीया खण्डिका ॥ (ख) वाग्यता आसत आमार्जनात् ॥१॥२४॥४८३। (ख) मनो ज्योतिर्जुषतामित्याद्भिरन्तर्वेदि प्रस्तरे 'मार्जयित्वाऽऽजेयं पुरोडाशं चतुर्धा कृत्वा बहैि पदं करोति बर्हिषदं वा कृत्वा चतुर्धा करोति ॥ २ ॥ २५ ।। ४८४ ।। [प्रकृतमार्जनपदार्थ समानककत्याविवक्षाफलं च] (भा) शिरस्यपामानयन मार्जनम्। 2 प्रस्तरादपादाय मन्त्रावृत्तिश्च। [प्रस्तरे मार्जयित्वेति सूत्र भाष्यार्थलाभः] (वृ) शिरस्यपामादायेति ;- अन्तर्वेदि प्रस्तरे मार्जयित्वेत्यन्त वैद्यवस्थिते प्रस्तरे जलमासिच्य तस्याधस्ताद्धस्तेन जल गृहीत्वा शिरस्या- नयति । [मन्त्रावृत्तिहेतूपपात्तिः फल च मर्जने मतिभेदश्च] मन्त्रावृत्तिश्च ;—प्रतपुरुषम् । मार्जयित्वा चतुर्धा कृत्वा 1 इद‘ मनोज्योतिरिति ' बृहस्पतिवत्या मार्जन तस्या प्रकरणपाठात् । अन्तर्वेदीति वचन वेदिस्थ एव प्रस्तरे यथा माजनं स्यात् मा भूप्रस्तरमादाय बहिरिति। मार्जन-हस्तेऽपामासेचनम् तदेव शिरस्यानयनसहितमिति केचित् , तदयुक्तम्, अग्निहोत्रान्ते मार्जयते शिरस्यप आनयत इति पृथग्विधानात् । , अञ्जलि तथा मन्तर्धायाप आसेचयते तन्मार्जनमित्येवाश्वलायन । बर्हिषदं—स्तिथं बर्हिषि सन्नम्। 2प्रस्तरादप आदाय-ख ग घ. 3 मन्त्रावृत्तिश्च–क. घ.