पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

234 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २०, सू ५.

(भा) ध्रुवावत् ।। ४५३ ॥
( सू) दैवतसौविष्टकृतैडचातुर्धा[१]कारणिकानामुत्तर[२]मुत्तरं ज्यायः । ४ ।। ९३ ॥ ४५४॥
(ख) द्विरभिघार्य न [३] हविः प्रत्यभिघारयति ॥५॥ ९४ ॥ ४५५ ॥
[प्रत्यभिघारणव्यवस्था तत्फलं च]
(भा) प्रत्यभिघारण[४]स्विष्टकृदर्थम् । अतो न सौम्ये । [५]पश्ववदा[६]नेषु च त्र्यङ्गेभ्यस्स्विष्टकृत् ॥ ४५५ ।।
| धृवावदित्यस्यार्थः]
(बृ) धृवावदिति ’-यथा ध्रुवायास्सर्वयज्ञार्थत्वात् ‘द्रव्यस्योपांशुयाजार्थे नावदानमन्त्रः प्रयुज्यते तत्रापि द्रव्यसाधारणत्वमेव मन्त्राभावे हेतुः ।
[प्रत्यभिघारणस्य केवलस्विष्टकृदर्थत्वोपपत्तिः]
प्रत्यभिघारणं स्विष्टकृदर्थमिति ;. प्रत्यभिघारणस्य संस्काररूपत्वात् सस्कृतेन कार्यं कर्तव्ये अनन्तरप्राप्तवास्विष्टकृतः । स्विष्टकृदभिधारणानन्तरं न हावः प्रत्यभिधारयतीति निषेधाच्च केवल स्विष्टकृदर्थता ।
अतो न सौम्ये चरौप्रत्यभिषारणम् । स्विष्टकृदभावात् ।
[पश्ववदानेषु यज्ञे च प्रत्यभिधारणाभावोपपत्तिः]
पश्ववदानेषु चेति-एकादशवदानानां प्रत्येकं हविष्टात् तेभ्यश्च स्विष्टकृदवदानाभावात् न तेषु प्रत्यभिघारणम् ॥
त्रयीभ्यस्स्विष्टकृदितितेषु प्रत्यभिघारणम् प्रदानावदाना-

  1. करणिका–क ख.
  2. अवदानमिति शेष. (रु)
  3. अत एव प्रतिषे
    धात् ज्ञायते प्रत्यभिघारणं स्विष्टकृदर्थमिति तेन पक्षवदानेषु सौम्ये च चरौ निवर्तते
    (रु)
  4. घारयति (सु रा)
  5. पश्ववदानेषु च यन्नभ्यस्स्विष्टकृदिति क नेषु
    यज्ञेभ्यस्स्वि-घ
  6. तद्द्रव्यस्यो (मु रा)