पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २०, सू. ७] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने षष्ठ पटल 2B1 प्राशिषमीडमानो देवानां दैव्येऽपि यजमानो मृतो भूत् यं वां देवा अकल्पयन्नूर्जा भाग शतक्रतू एतद्वां तेन प्रीणाति तेन तृप्यतम५हहौ अहं देवानाँ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावनुयजामि विद्वान् यदाभ्यामिन्द्रो अदधाद्भागदेयम् अदारसृद्भवत देव सोमास्मिन् यज्ञे मरुतो मृडता नः । मा नो विददभिभागो अशस्तिमानो विदद्वजना द्वेष्या या ॥ ६ ॥८९॥४५० ॥ एकोनविंशखण्डिका ॥ (ख) ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाँ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृता (धं) देवता । तयोर्वैश्वानरमाणरूपतया पुरुषे नित्य ‘स्थितत्वान्मन्त्रेषु नारिष्ठ’शब्देन निर्देशात् तद्विशिष्टयोर्देवतात्वम् । चतुर्थं सोममरुतः। पञ्चमे ब्रह्म । षष्ठेऽपीति केचित् । प्रकृतत्वात् षष्ठस्यामिः त इति सन्निहितस्याग्नेः सबोधनात् बहुचमताच्च अव्यक्तनिर्देशेष्वमर्देवतात्वात् प्रजापतिर्वा अनिरुक्तः प्रजापतिः। 1 नित्यसंस्थितत्वा–क 2 शब्दनि (मु. रा)