पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xx सैवाराधने प्रयोजयेत् । कुतः भोजनस्य तदर्थत्वात्- भोजनस्य हविषस्तत्समर्पणस्य च तदर्थत्वात्-तच्छेषत्वात् । संप्रदानभूता हि देवता प्रधानतया स्वार्थे द्रव्यतत्समर्पणे प्रयुद्धे क्रियाप्रधानवाक्येषु न्यग्भूतापि हि देवता । तत्तन्मन्त्रादिसामथ्र्यादर्थप्राधान्यशालिनी । न च वाच्यं विग्रहादिपञ्चकायोगान्न प्रयोक्री देवतेति, स्मृत्युपचारा- न्यार्थदर्शनैबाधितैस्तत्सिद्धेः । अतो यथविग्रहादिमानतिथि- राराध्यः स्वार्थ स्वाभीष्टमुपचरणं प्रयुङ तथा देवतापीति । अर्थवत्त्वाच्या ’ (१-१-७) अथैते प्राप्यत इत्यर्थं विभूतिः अर्यत इति वा । अतः तदभावादनाराध्या अनीप्सितप्रदत्वा दप्रयोजिकेति न शङ्कथम् । परा खलु देवता सर्वस्येथे । तन्नियुक्ता चापरा यथाऽधिकारं तत्तद्विभूतीनाम् । तथाऽपि निरपेक्षा देवता न कुतश्चित्प्रीयेत न कश्चित्प्रीणाति ततः कथं प्रयोजिकेत्यत्राहततश्च तेन सम्बन्ध” (९-१-८) । ततः--नैरपेक्ष्येऽपि नरदेवनीत्या दयौदर्यशालिन्याः परिचर्य माणायाः प्रसेदुष्या देवताया एव हेतोः परिचरतां स्वाभीष्टफलेन सम्बन्ध स्मृत्युपचारादिभिरेवं सिद्ध इति पूर्वपक्षः । राद्धन्तस्तु अपि वा शब्दपूर्वत्वाद्यज्ञकर्मप्रधानं स्यात् (९-१९) अत्र अपि वेति साञ्चीकार पक्षव्यावर्ननम् । यद्यपि देवताविग्रहादि पञ्चकं दुर्निषेधम् । द्रव्याद्यपेक्षया संप्रदानस्य प्राधान्यम् । यजेश्च देवता राधनवाचितया यागस्य तादर्य सिद्धपरवाक्येषु च परावरदेवतयो स्खरूपमनन्यार्थमामनामः , तथाऽपि कर्तव्योपदेशेषु यशदिरूपं कर्म फलसाधनतया चोदितत्वात् प्रधानं सत् साध्यतया बुद्धया रोहेण पुरुषं प्रवर्तयति । क़त्ल च देवतादि क्रियाशेषभूतस ॥ ननु फलप्रदाया देवताया आराध्यत्वेन प्राधान्यमनुशोधूयमहे? अत्राह ;-गुणत्वे देवता श्रुतिः (९-१-१०) । हविः प्रदानं प्रति गुणीभूतां हि देवतामनुशृणुमः । सन्धार्थ- वादोपस्थापितं देवता प्रीतिरूपमपूर्व चोदितस्य कर्मणः क्षणिकस्य