पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

X । न्यायोपनिबन्धनात् मीमांसकैः केवलं यश एव पीतम्, इति च बदन्तो (१-३-६) वार्तिककाराः संप्रतिपन्नवेदर्थवित्संमतन्याय- निबन्धनरूप मीमांसेति , मीमांसकानां च बाह्यतार्किकतन्मार्ग प्रविष्टप्रतिबोधनाधिकारो महानेवारोपितश्शिरासि, न तु परम वैदिकपरिगृहीतपथकदर्थन कर्तव्यतापि इति च मन्यन्ते । सनातनधर्मानुष्ठानमार्गनिष्ठाश्च अनुष्ठापकवचोबृन्दसामरस्य ऽपरेभूषेतहृदया कल्पसूत्रव्याख्यातार एवमातिष्ठन्ते , तथाहि- तृतीयप्रश्न-पिष्टलेपफलीकरणहोमविषरे - अस्य होमस्य आदित्यो देवता हृदयान्तरपुरुषो वा इति वृत्तिकृत् रामाण्डारः तुरीयप्रश्न-वनस्पतीज्याभिराराधनं करिष्यामीति इति , आहुतिभिराराधितत्वात् इति च भाष्यकृत् धूर्त स्वामी तुरीयप्रश्न–ज्योतिष्मतीgथा यस्याग्निहोत्रार्थमुद्धतोऽग्निरहु तेऽग्निहोत्रेऽनुगच्छति तस्योत्पत्तिः (भा) य पूर्वमनुगत आहवनीयोऽग्निः स एवायमनि योऽत्र देवताभूतोऽग्निः । पूर्वमनुगतस्यावक्षाणस्थस्य ज्योतिर्मात्रं विनष्टम् । तत्राहवनीयानेः ज्योतिष्मतो विनष्टस्य देवतात्वेना न्वयात् । यदेवास्य ज्योतिः परा पतितं तदेवावरुन्धे ' इति विनष्टस्य ज्योतीरूपस्यादृष्टात्मकस्य प्रतिसमाधानार्थेयमिष्टिः इति तुरीये प्रक्षे -उपावरोहे त मन्त्रे उक्ते गार्हपत्यादिर्देवताभूतोऽ- फ़िलौंकिकमुपसंक्रामति इति भाष्यम् । षष्ठे प्रश्न-होमेनाराध्य आशीर्भिरुपस्थानेन याचते , देवता कोपप्रसङ्गात् इति वृत्तिकृत् । षष्ठे प्रक्षे-~नवानामग्रप्राप rणं देवानाम् , तदाग्रयणकर्म इति । स्वामिभाष्यम् । सप्तमे प्रश्ने-वैश्वदेवशब्दनिर्वचने-अत्रेदं प्रयोजनम् आने याद्यष्टकर्मसमुदायेन अग्नथाख्यः परमात्मा यष्टव्य इति ज्ञानम् इति श्रुतिः। SROUINEA. VOL I.