पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

X देवताया विग्रहाद्यस्ति , न तु तस्याः फलप्रदत्वं विकल्पास हत्वात् (शानदी ) इति च । सोऽयं वादश्शबरस्वामिनमारभ्य मीमांसकैः जैमिन्यभिप्राय इति कुतसंकेतैः यथामतिबलं न्यायादि निरूपणैव्यवर्यमानः प्रचरति । तेषु च वादिषु मूर्धन्यः खण्डदेवः स्वयं समुचितसूत्रतात्पर्य परिचिन्तनशक्तोऽपि शबरादिपूर्वपूर्वमीमांसकपरम्परावचस्समाश्वा- सप्रचारमात्रधिया वादमिममुपवण्यै ‘मम त्वेवं वदतो वाणी दुष्यतीति हरिस्मरणमेव शरणम् ’ इति मुक्तकण्ठमाधुपत् । तदेतच्छरणवरणं निखिलपूर्वमीमांसकवर्गप्रतिनिधिस्थानस्थितेन तेन कृतम् । न खलु जैमिनेराशय इति वर्णनमात्रेण प्रत्यवायभिया शरणवरणं वस्तुतो देवतातत्प्रसादादिनास्तिक्यहतमतेः प्रवृत्तिगोचरस्स्यात् । मीमांसासारसर्चस्ववेदि परमधार्मिकविद्वबृन्दपरिगृहीतकल्प सूत्रव्याख्यातृवेदव्याख्यातृसूक्तिसिद्धे भगवतो वेदपुरुषस्य निगूढ- माशयं स्वपूर्वपुरुषपरम्परोपदेशपरिप्राप्तं देवतातत्प्रसादादि तात्वि कताविषयं जानात्येव खण्डदेवोऽपि। परिपाल्यमानप्रस्थानपरिचयप्राथमिकश्रद्धमूलकस्य साहजिक पाटवातिशयस्य सतो दुर्निरोधतया परं तथा वादोद्धोषः । न च जैमिनौ ब्रह्मवादिनामग्रेसरे कश्चिद्दोषमारोपयितुं स चेता उद्युक्तास् । नित्यनिषिद्धयोरिष्टानिष्टफलं नास्तीत्यादिनिष्ठभर्तुमित्रादि निरसनेन मीमांसास्तिक्यसंपादनैदम्पर्यम् निदषत्वैकवाक्यत्वं क्क वा लोकस्य र श्यते । सापवादा यतः केचिन्मोक्षस्वर्गावपि प्रति । इति अधिकारिभेदभिन्नस्वर्गमोक्षपुरुषार्थशास्त्रार्थनैर्भार्यप्रदर्श नेन तदनभ्युपगमनिन्द्यतां च प्रकटयन्तः , ‘यद् अध्येतारोऽs- ध्यापयितारश्च पश्र्वस्था वा वेदवाक्यतदर्थरूपाण्यालोचयन्ति तदा स्वसंवेद्यमेवापौरुषेयत्वमध्यवस्यन्ति । तावता तु बाह्यतार्किकाणां प्रतीति भावना नोत्पद्यत इति तत्तत्प्रतिपादनक्षमवेदोत्थापित