पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१) ११ १३ अग्नीवरुणाभ्यां स्विष्टकृद्भथामनुब्रूहि ; अर्नी वरुण स्विष्टकृतौ यजेतिमीमांसकाः (भा) १९ अग्नीदौपयजानगारं हरन्त्यादि पाशुकम् यद्य पीधिविधिः ; प्रणीताविमोकमार्जनान्त-- वचनादेव मीमांसकाः (भा) नष्ठा पुनरागता गृहान् सा च दक्षिणा सत्वः वतामिति मीमांसकाः प्रधानदक्षिणान्त भवादिति । नोपपद्यते तस्मादङ्गभूतैक तत्र दक्षिणा (भा). एवमादीनि बहून्युदाहरणानि । द्रष्टव्याने स्पष्टमेव चाब्रवीन्महादेवः याज्ञिकास्सूत्रकारणां मत बुबा स्वयं तथा । न्यायैस्तत्सूचितैरेव द्रढयन्त्यकुतोभयाः ॥ प्रसिद्धिमनुगृजन्तस्ते मान्याश्श्रौतकर्मणि ॥ इति ॥ तज्जैमिनिमतापेतमिति मे दूषणं न हि ॥ इति॥ जैमिनीयैस्तु पशुप्रकृतित्वमाशङ्कय दूषितं न्यायेन , अस्मच्छा ततु खोपदेशसूचितन्यायव्याख्याने सूत्रतात्पर्यं दर्शितम् । अतोऽस्म त्सूत्रेऽयमेव प्रकारो ज्ञेयः। इति -- न्यायोपदेशयोः केचित् विकल्पं ब्रुवते न तत् । युक्तं न्यायोऽनुमानं तु श्रुतितुल्यं कथं भवेत् ॥ इति च । अतः मीमांसकोक्तेषु स्वस्वसंप्रदायाविरुद्धमेव ग्राह्यमिति याज्ञिकपक्षः । देवताविग्रहादियज्ञशास्त्रव्याख्यातृपरिग्राह्यमेव ॥ यश्च जैमिनीयव्याख्यातृणां पराक्रमः-- कथमपि न देवताया विग्रहादिखीकारः। शब्दमात्रं देवता । अर्थस्तु चेतनोऽचेतनो वा कश्चित् स्वीक्रियते , ने तु विग्रहादिमान् । उपासनादौ परं ध्यानमाहार्यं तस्य (भाट्टदी. ९१४) इति ।