पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः पटलः ।। सर्वेषामेव कर्मणां शेषभूतमाचमनं विधास्यस्तदुपयोगिनो वि. धीनाह-- उपासने गुरूणां वृद्धानामतिथीनां होमे जयक- मणि भोजन आचमने स्वाध्याय च यज्ञोपवीती स्यात् ।। १॥ गुरूणामाचार्यादीनाम् , अन्येषां च वृद्धाना पूज्यानामतिर्थाना च उपा सने यदा तानुपास्ते तदा, होमे साङ्गे पिञ्यादन्यत्र, जप्यकर्मणि जपक्रि- याथां भोजनाचमनयोश्च, स्वाध्यायाध्ययने च, यज्ञोपवीती स्यात् यज्ञोप चीती भवेत् । वासोविन्यासविशेषो यज्ञोपवीतम्(१) 'दक्षिणं वाहुमु. द्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम् , इति ब्राह्मणम् । वाससोसम्म वेऽनुकल्पं वक्ष्यति 'अपि वा सूत्रमेवोपवीतार्य (२-४-२२ ) इति । मनुरप्याह- (२) कार्पासमुपर्धातं स्याद्विप्रस्थोव॑वृतं त्रिवृत् । इति । (३) उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ।। इति च । एषु कर्मनु यज्ञोपवातविधानात्कालान्तरे नावश्यम्भावः ॥१॥ भूमिगतास्वपस्वाचम्य प्रयतो भवति ॥२॥ (४)आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विता(५) ।। इति मनुः । 'शुचि गातृप्तिकत्तोयं प्रकृतिस्थं महीगतम्' इति । याज्ञवल्क्य. (६) अजा गावो महिष्य व ब्राह्मणी च प्रमतिका ! दशरात्रेण शुध्यन्ति भूमिष्टं च नवोदकम् ॥' (७)इति । १.ते. आ.२.१. २. म स्मृ. २.४४. ३. म. स्मृ २ ६३. 'द्विजः' इति ख. व. पुस्तकयो मुद्रितमनुस्मृतिपुस्तके च । ४. यज्ञोपवीतविधानात् इति. ख. पु. ५. म. स्मृ५. १२७. या. स्मृ.१.१९२ ६ अयं इलोको मुद्रितमनुस्मृतिपुस्तकेषु नोपलभ्यते । ७. 'मनुः' इति क. पु.