पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नित्यस्वाध्यायाः ] उज्वलोप्ते प्रथमः प्रश्नः । सदेव (१)शाखान्तरं पठति- अथ यदि वा बातो बाधास्तनयेहा विद्योत्तेत वाऽवस्फू- जैका वर्चमेकं वा यजुरेकं वा सामाऽभिव्याहरेभूर्भु- वस्सुवस्सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो- हैवाऽस्यैतदहस्स्वाध्याय उपात्तो भवति ॥ ६ ॥ अन्ते इतिशब्दोऽध्याहार्यः । वातादिषु सत्सु एकामृचमधीयति । प्राप्त प्रदेशे। यजु(२)र्वेदाध्ययन एकं यजुः । साम(३)वेदाध्ययन एक साम । सर्वेषु वा वेदेषु 'भूर्भुवः सुक रित्यादिकं यजरभिव्याहरेत् , न पुनर्य- थापूर्व प्रश्नमात्रम् । तेनैव तावतवास्याऽध्येतुः तदहः तस्मिनहनि स्वाध्याय उपात्तो भवति(४) अधीतो भवतीति यावत् । केचितु 'भूर्भुवः सुव' रित्या. दिक ब्राह्मणभागाध्ययनविषयं मन्यन्ते, न सार्वत्रिकम् ॥५॥ कस्मात् पुनर्वजिसनेयिब्राह्मणस्योदाहते शाखान्तरे वाक्यसमा- तिराश्रीयते न पुनर्यथाश्रुतमा गृद्यते ? तत्राह- एवं सत्यार्यसमयेनाऽविप्रतिषिद्धम् ॥ ६ ॥ एवं सति वाक्यपरिसमाप्तावाश्रीयमाणायामार्यसमयेन आर्याः शिष्टा मन्वादयः तेषां समयो व्यवस्था, तेन अविप्रतिषिद्ध भवति । इतरथा विप्रतिषिद्धं स्यात् ॥६॥ कथम्? अध्यायानध्यायं युपदिशन्ति । तदनर्थकं स्याद्वाज- सनेयिब्राह्मणं चेदवेक्षेत ॥ ७ ॥ आर्या हि अध्यायमनध्याय चोपदिशन्ति । तदुपदेशनमनर्थकं स्यात् यदि वाजसनेयिब्राह्मणं यथाश्रुतमवेक्षताऽध्येता ॥७॥ ननु-अनर्थकमेवेदमस्तु, श्रुतिविरोधात् । तत्राह- आर्थसमयो ह्यगृह्यमानकारणः ॥८॥ योऽयमध्यायानध्यायविषय आर्यसमयः न तत्र किश्चित्कारणं गृह्यते । यथा(५) वैसर्जनहामीयं वासोऽध्वयंवे ददाती' त्यागृह्यमाण १ किमिदं शाखान्तरमिति न ज्ञायते । २, ३. वेदाध्यायी इति क. पु. ४. स्वीकृतो भवति अधीतो भवतीत्यर्थ , इति. ख. पु ५. सोमयागे अग्नीषोमीयपश्वनुष्ठानकाले तदर्थ शालामुखीयादग्ने कचिदशमुद्धस्य