पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब धर्मखन्ने [(प.४.)क.१२. ध्यायस्तस्यैतो वषट्कारा यत्स्तनयति यद्विद्योतते पदधस्फूर्जति यछातो वायति । तस्मात् स्तन- यति विद्योतमानेऽवस्फूर्जति चाते वा वाय- त्यधीयीतब वषट्काराणामच्छम्ब. दकारायेति ॥३॥ अथापि अपि च स्वाध्यायो नाम य एष ब्रह्मयज्ञ ब्रह्म वेदः तत्साधनो यागः। यथा दर्शपूर्णमासादयः पुरोडाशादिसाधना। हवैशन्दो प्रसिद्धिं द्योतय. तः। तस्य यज्ञस्यैते वक्ष्यमाणाः स्तनयित्वादयो वषट्काराः वषटकारस्थानी या। बहुवचननिर्देशातू (१) वषट्कारानुवषट्कारस्वाहाकारास्सर्वे प्रदा नार्था गृह्यन्ते । (२)स्तनितं मेघशब्दः। विद्योतनं विद्युझ्यापारः। अवस्फूर्जनम शनिपातः । तत्र 'अवस्फूर्जथुर्लिङ्ग मिति दर्शनात् । 'वायती' ति 'ओवै शोषण' इत्यस्य रूपम् । यथा आर्द्रप्रदेशश्शुष्को भवति तथा(३) वाती. त्यर्थः । यस्मादेते वषट्काराः तस्मात् स्तननादिश्वनध्यायनिमित्तेषु सत्स्वध्यधीयोतक । न पुनरनध्याय इति नाधीयीत । किमर्थम् ? वषट्- काराणामेतेषामच्छम्बट्काराय अव्यर्थत्वाय । अन्यथा एते वषट्कारा ध्यारस्युः । ततश्च(४) यथा होत्रा वषट्कृते अध्वर्युन जुहुयात् ताह. गेच तत्त्यात ॥३॥ तस्य शाखान्तरे वाक्यसमाप्तिः॥४॥ तस्य वाजसनेयित्राह्मणस्य ! शाखान्तरे वाक्यसमाप्तिर्भवति, (५)तावति पर्यवसानम् ॥ ४॥ १. वषट्कारः सर्वत्र यागादौ हवि प्रक्षेपात् पूर्व हवि.प्रक्षेपार्थमेव पठ्यमानया. ज्यायाः अन्ते पठ्यमानः “यौषट्" इति शब्दः । सोमयागे तत्तदूग्रहहोमानन्तर “सोम- स्थाग्ने वीहि३ वौषट्" इति द्वितीयवारं पठ्यमानोऽनुवषट्कारः। स्वाहाकारस्तु प्रसिद्ध. । २. स्तनन इति. न. ग. पु. ३. वायतीत्यर्थः, इति क. पु. ४. दर्शपूर्णमासादियागेषु सर्वत्र हविःप्रदानसमये "अमुष्मा अनुबहि" इति प्रैषानन्तर पुरोनुवाश्यामनूच्याऽऽश्राव्य प्रत्याश्रन्य याज्यामुक्त्वा वषटते जुहोति" इति वचनात् वषट्कारानन्तर होमो विहितः। तत्र वषट्कारानन्तर होमाकरणे यादृशो दोषस्तादृशस्स्या- दित्यर्थः। ५. तावतीति. नास्ति ख.पु.