पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थः पटलः ॥ तपः स्वाध्याय इति ब्राह्मणम् ॥१॥ योऽयं नित्यस्वाध्यायस्तत्तपः कृच्छ्रातिकृच्छूचान्द्रायणादिलक्षणं तपो यावरफलं साधयति तावत्लाधयतीत्यर्थः॥१॥ तत्र श्रूयते(१)स यदि तिष्ठन्नासीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति ॥२॥ तत्रैव ब्राह्मणे "स यदि तिष्ठन्नासीन' इत्यापरकल्पः श्रूयते । तत्र (२) दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्याय' मित्यादिमुं. ख्यः कल्पो(३) ब्राह्मण एवोक्तः । इह पुनरासीनवचनं यथाकथञ्चिदा. सनार्थम् । सर्वथाऽप्यधीयानस्तप एव तत्तप्यत इति ब्राह्मणार्थः । मनुरप्याह- (४)आहैव स नखानेभ्यः परमं तप्यते तपः। यस्त्रग्यपि विजोऽधीते स्वाध्याय शक्तिनोऽन्वहम् ' इति । सम्बोति स्वरं दर्शयति ॥२॥ एवं कर्तुनियमो नाऽऽपद्यतीवाऽऽदरणीय इत्युक्त्वा कालेऽप्याह-- अथापि वाजसनेयिब्राह्मणम्(५)ब्रह्मयज्ञोह वा एष सत्स्वा- १.ते. आ. २. १२. अत्र सूत्रे ब्राह्मणवाक्यानुपूर्वी योपात्ता सा क्वचित् ब्राह्मणे नोपल भ्यते । किन्तु एवमनुमीयते-तैत्तिरीयारण्यकद्वितीयप्रपाठकद्वादशानुवाकगतं "उत तिष्ठन्नुत ब्रजन्नुतासीन उत शयानोऽधीतैव स्वाध्यायम्" इत्यंशं तप एव तत् तप्यते तपो हि स्वाध्या- यः' इति तत्रैव प्रयोदशानुवाकगतमश दाऽऽदायैकीकृत्य सूत्रेऽनूदितवान् सूत्रकार इति । २. तै. आ. २.१११ ३. तैत्तिरीयारण्यके स्वाध्यायब्राह्मण इत्यर्थः । ४. मनु. २. १६५. “ यदि ह वा अप्यभ्यतोऽलंकृतस्सुहितस्सुख शयने शयान. स्वाध्यायमधीत आहेव स नखाग्रेभ्यस्तप्यते य एवं विद्वान् स्वाध्यायमचीते, तस्मात् स्वा ध्यायोऽध्येतव्य." ( मा शत. ब्रा ११. ५. ३.) इति माध्यान्दनशतपथब्राह्मणवाक्यमू- लेयं मानवी स्मृतिरिति भाति । ५. इदानीमुपलभ्यमानमाध्यन्दिनशतपथब्राह्मणपंक्तिस्वियम्-"तस्य वा एतस्य ब्रह्म यक्षस्य चत्वारो वषट्काराः यद्वातो वाति यद्विद्योतते, यत् स्तन्यति यदवस्फूर्जति तस्मादेव- विद्वाते चाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामछम्बट्काराय" इति ।