पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनध्यायाः] उज्वलोपेते प्रथमः प्रश्नः । त्राम् । समाहारहून्दू छान्दसो लिङ्गव्यत्ययः । सर्वेष्वेतेषु वाता- दिषु च त्रिषु तावत्कालमनध्यायः । वाते घोषधति । पूतिगन्धे दुर्गन्धे। नीहारे हिमान्याम् । वातादिग्रहण पूर्वोक्तानां श्वगर्दभादीनामुपलक्षणा. र्थम् । पुनरिह वचन तावत्कालमिति विधातुम् । अत्रैव श्वगर्दभादिग्रहणे कर्तव्ये पूर्वत्र पाठस्य चिन्त्यं प्रयोजनम् ॥ २७ ॥ मुहूर्त विरते वाते ॥ २८॥ वाते घोषवति विरतेऽपि मुहुर्तमात्रमनध्यायः ! द्वे नाडिके मुहूर्तम्।।२८॥ सलावृक्यामेकमृक इति खप्नपर्यन्तम् ।। २९ ।। (१) तावत्काल'मित्यस्याऽपवादोऽयम् । सलादृश्येकसृकशब्दो व्याख्यातौ ॥२९॥ नक्तं चारण्येऽनग्नावहिरण्ये वा ॥ ३० ॥ रात्रावाग्निवर्जिते हिरण्यवर्जिते चारण्ये नाधीयात ।। ३० ॥ अननूक्तं चाऽपत्तौ छन्दसो नाधीशीत ॥ ३१ ॥ उत्सर्जनाध्वमुपाकरणादगिपर्तुः तत्र छन्दसोऽननूक्तमंशमपूर्व नाऽधीयर्यात ! ग्रहणाध्ययनमपतौं न कर्तव्यम् । यद्यपि(२)तभ्यां पौर्ण- मास्यां रोहिण्यां वा विरमे' दित्युक्तम, तथापि कियन्तं कालं तद्विर- रमणम् ? कस्माद्वाऽध्ययनम् ? इत्यपेक्षायामिदमुच्यते तावन्तं कालं ग्रहणाध्ययन न कर्तव्यमिति । धारणाध्ययने न दोषः। तथा 'छन्दस' इति वचनादङ्गानां ग्रहणाध्ययने न दोषः॥३१॥ प्रदोषे च ॥ ३२॥ प्रदोषे चाऽननूक्तमृतामपि नाधीयोत । (३) मासं प्रदोषे नाधीयीते' स्येतत्तु धारणाध्ययनस्यापि प्रतिषेधार्थम् । अपर आह-यस्यां रात्री द्वादशी त्रयोदशी च मिश्रीभवतः, तस्यां प्रदोषे नाधीयोतानूक्तमननुः तंच, ऋतावपतौ च । एष आचार इति ॥ ३२ ॥ सार्वकालिकमानातम् ॥ ३३ ॥ आम्नातमधीतं तत्सार्वकालिकमपौ प्रदोषे व सर्वस्मिन्कालेऽध्येतव्यम् ३३ यथोक्तमन्यदतः परिषत्सु ॥ ३४ ।। 1 १. आप.ध.१.११.२७. २.आप.ध,१.९.२. ३. आप.ध.१.९.१. आप०ध० ९