पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (प.३)क. ११. अपलौ यस्मिन् देशे यो वर्शकाल तोऽन्यस्तत्रापर्तुः । तत्र यदि विधुदादयस्सनिपतेयुः समुदितास्स्युः तदा त्र्यहमनध्यायः ॥ २३ ॥ यावद्भूमिव्युदकत्येके ॥ २४ ॥ यावता कालेन भूमि विगतोदका भवति तावन्तं कालमनध्याय इत्येके अन्यन्ते ॥२४॥ एकेन द्वाभ्यां वैतेषामाकालम् ॥ २५ ॥ एतेषां विद्युदादीनां मध्ये एकेन द्वाभ्यां वा योगे आकालमनध्यायः । अ. परेधुरा तस्य कालस्य प्राप्तरित्यर्थः ॥ २५ ॥ सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्का यामग्न्युत्पाते च सर्वासा विद्याना सार्वकालिकमाकालम् ॥२६॥ 'सूर्याचन्द्रप्रसो' रिति वचनं बृहस्पत्यादिनिवृत्त्यर्थम् । भूमिचले भू. कम्पे । अपस्वाने निर्धाते । उल्कामामुल्कापाते । अग्न्युत्पाते(१) प्रामादिदा हे । एतेषु निमित्तषु(२) सर्वेषु सर्वासां विद्यानाम्-- (३)अङ्गानि वेदाश्चत्वारो भीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या हाताश्चतुर्दश ॥ इत्युक्तानाम् । सार्वकालि कमृत्तौ चापों चाऽऽकालमनध्यायः। अत्र 'सर्वासामिति वचनादन्यत्र वेदानामेव प्रतिषेधः ! अङ्गानामपीत्यन्ये ॥ १६ ॥ अभ्रं चापता सूर्याचन्द्रमसो परिवेष इन्द्रधनुः प्रतिसूर्यमत्स्यश्च वाते पूतिगन्धे नीहारे च सर्वध्वेतेषु तावत्कालम् ॥२७॥ अपावभ्रं दृश्यमानं यावत् दृश्यते तावत्कालमनध्याय 1 एवं परिवे. पादिवपि योज्यम् । वृहस्पत्यादिपरिवषे न दोषः । इन्द्रधनुः प्रसिद्धम् । सूर्यसमीपे तदाकृति. प्रतिसूर्यः । मत्स्यः पुच्छवनः १. गृहादिदाहे इति ग. यु २. सर्वेषु इति नास्ति. ख. भ. पु ३. विष्णु पु. अङ्गानि शिक्षाव्याकरणछन्दोनिशक्तज्योतिषश्रौत्रसूत्राणि, चत्वारो वेदाः, ऋगादयः प्रसिद्धा', मीमांसा पूर्वमीमांसा, उत्तरमीमांसा च, न्यायविस्तरः गौतम- "प्रणीतमावाक्षक्याख्यं न्यायशास्त्रम्, वैशेषिकशास्त्रं च, पुराण मरस्यादिपुराणानि, मन्बा दिप्रणीतानि धर्मशास्त्राणि च विद्यापद्वाच्यानीत्यर्थः ।